भृत्यानां च परित्यागः साधुबंधुतपस्विनाम् ४१.
शिवाश्रमतरूणां च पुष्पारामविनाशनम् ४१.
यज्ञारामतडागादिदारापत्यस्य विक्रयः ४१.
स्त्रीधनान्युपजीवंति स्त्रीभिरत्यंतनिर्जिताः ४१.
ऋणानामप्रदानं च मिथ्याघृद्ध्युपजीवनम् ४१.
विषमारणयंत्राणां प्रोयगो मूलकर्मणाम् ४१.
जिह्वाकामोपभो गार्थं यस्यारंभः स्वकर्मसु ४१.
व्रात्यता व्रतसंत्यागः सर्वाहारनिषेवणम् ४१.
देवाग्निगुरुसाधूनां निंदा गोब्राह्मणस्य च ४१.
उत्सन्नपतृदेवेज्याः स्वकर्मत्यागिनश्च ये ४१.
पर्वकाले दिवा चाप्सु वियोनौ पशुयोनिषु ४१.
स्त्रीपुत्रमित्रसुहृदामाशाच्छेदकराश्च ये ४१.
भेत्ता तडागकूपानां संक्रमाणांरसस्य च ४१.
इत्येतैश्च नराः पापैरुपपातकिनः स्मृताः ४१.
ये गोब्राह्मणकन्यानां स्वामिमित्रतपस्विनाम् ४१.
परश्रियाभितप्यंते हीनां सवंति ये स्त्रियाम् ४१.
गोष्ठाग्निजलरथ्यासु तरुच्छायानगेषु च ४१.
गीतवाद्यरता नित्या मत्ताः किलकिलापराः ४१.
कूटशासनकर्तारः कूटयुद्धकराश्च ये ४१.
मिथ्याप्रसादितो वाक्यमाकर्णयति यः शनैः ४१.
यो भार्यापुत्रमित्राणि बालवृद्धकृशातुरान् ४१.
यः स्वयं मृष्टमश्नाति विप्रायान्यत्प्रयच्छति ४१.
नियमान्स्वयमादाय ये त्यजंत्यजितेंद्रियाः ४१.
दुर्बलान्नैव पुष्णंति प्रणष्टार्था द्विषंति च ४१.
तेषा मदत्त्वा चाश्रंति चिकित्संति न रोगिणः ४१.
हीनवर्णात्मवृत्तिश्च वैद्यो धर्मध्वजी च यः ४१.
सदा दण्डरुचिर्यश्च यो वा दण्डरुचिर्न हि ४१.
यस्य राज्ञः प्रजा राष्ट्रे पच्यते नरकेषु सः ४१.
आलस्योपहतो राजा व्यसनी नरकं व्रजेत् ४१.
यद्वातद्वा परद्रव्यमपि सर्षपमात्रकम् ४१.