इत्येतत्पातकं ज्ञेयं गुरुनिंदासमं महत् ४१.
महापातकिनस्त्वेते तत्संसर्गी च पंचमः ४१.
मर्मांतिकं महादोषं ब्रह्मघ्नः स प्रकीर्तितः ४१.
पश्चान्नास्तीति यो ब्रूयात्स च वै ब्रह्महा स्मृतः ४१.
उदासीनः सभामध्ये ब्रह्महा स प्रकीर्तितः ४१.
विरुद्धं गुरुभिः सार्धं ब्रह्मघ्नः स प्रकीर्तितः ४१.
यः समाचरते विघ्नं तमाहुर्ब्रह्मगातकम् ४१.
उद्वेगजननः क्रूरः स च वै ब्रह्महा स्मृतः ४१.
यः समाचरते विघ्नं तमाहुर्ब्रह्मघातकम् ४१.
पापीयान्पिशुनः क्रूरस्तमाहुर्ब्रह्मघातकम् ४१.
छद्मना वा बलाद्वापि ब्रह्महत्यासमं मतम् ४१.
सुरापानसमं ज्ञेयं जीवनायैव वा पठेत् ४१.
मातृपितृपरित्यागः कूटसाक्षी सुहृद्वधः ४१.
ग्रामं वनं गवावासं यश्च क्रोधेन दीपयेत् ४१.
दीनसर्वस्वहरणं नरस्त्रीगजवाजिनाम् ४१.
चंदनागरुकर्पूरकस्तूरीपट्टवाससाम् ४१.
कन्यानां वरयोग्यानामदानं सदृशे वरे ४१.
कुमारीसाहसं घोरमंत्यजस्त्रीनिषेवणम् ४१.
द्विजायार्थं प्रतिश्रुत्य न प्रयच्छति यः पुनः ४१.
अभिमानोतिकोपश्च दांभिकत्वं कृतघ्नता ४१.
भृत्यानां च परित्यागः साधुबंधुतपस्विनाम् ४१.
शिवाश्रमतरूणां च पुष्पारामविनाशनम् ४१.
यज्ञारामतडागादिदारापत्यस्य विक्रयः ४१.
स्त्रीधनान्युपजीवंति स्त्रीभिरत्यंतनिर्जिताः ४१.
ऋणानामप्रदानं च मिथ्याघृद्ध्युपजीवनम् ४१.
विषमारणयंत्राणां प्रोयगो मूलकर्मणाम् ४१.
जिह्वाकामोपभो गार्थं यस्यारंभः स्वकर्मसु ४१.
व्रात्यता व्रतसंत्यागः सर्वाहारनिषेवणम् ४१.
देवाग्निगुरुसाधूनां निंदा गोब्राह्मणस्य च ४१.
उत्सन्नपतृदेवेज्याः स्वकर्मत्यागिनश्च ये ४१.