कृत्वा पोतं धर्मरूपं साधूनां परमेश्वरः ४०.
ततः कृतयुगं भूयः प्रवर्तिष्यति पार्थिव ४०.
अष्टाविंशकलिश्चैव शेषः प्रावर्त अन्यतः ४०.
मरुराजाच्च देवापेः श्रुतदेवाच्च ब्राह्मणाः चतुर्युगे च ते धन्या ये भजंति हराच्युतौ॥ ४०.
केचिच्छिवं समाश्रित्य विष्णुमाश्रित्य वेधसम् ४१.
अपारवैभवा देवास्त्रयोऽप्येते नरर्षभ ४१.
पुरा किलैवं मुनयो नैमिषारण्यवासिनः ४१.
तस्मिन्क्षणे विरिंचोऽपि श्लोकं प्रह्वोऽब्रवीत्किल ४१.
महेशाय च भक्ते द्वौ कृपायेतां सदा मयि ४१.
तत्र योगेश्वरः श्लोकं प्रबुध्यन्नमुमब्रवीत् ४१.
सदाशिवं च वंदे तौ भवेतां मंगलाय मे ४१.
कैलासे ददृशुः स्थाणुं वदंतं गिरिजां प्रति ४१.
सदा तपस्यां चरामि प्रीत्यर्थं हरिवेधसोः ४१.
यद्वा देवा न संयांति पारं ये च परस्परम् ४१.
उत्तमाधममध्यत्वममीषां वर्णयंति ये ४१.
एवं ते निश्चियामासुर्नैमिषेया स्तपस्विनः ४१.
जापकानां सहस्राणि वैष्णवानां तथैव च ४१.
तस्माद्यस्य मनोरागो यस्मिन्देवे भवेत्स्फुटम् ४१.
कानि पापानि विप्रेंद्र यैस्तु संमूढचेतसः ४१.
अधर्मभेदा विज्ञेयाश्चित्तवृत्तिप्रभेदतः ४१.
तत्र ये पापनिचयाः स्थूला नरकहेतवः ४१.
तु. महाभारत अनुशासन १३.२ परस्त्रीद्रव्यसंकल्पश्चेतसानिष्टचिंतनम् ४१.
अनिबद्धप्रलापित्वमसत्यं चाप्रियं च यत् ४१.
अभक्ष्यभक्षणं हिंसा मिथ्या कामस्य सेवनम् ४१.
इत्येतद्द्वादशविधं कर्म प्रोक्तं त्रिसंभवम् ४१.
ये द्विषंति महादेवं संसारार्णवतारकम् ४१.
महांति पातकान्याहुर्निरंतरफलानि षट् ४१.
यथेष्टचेष्टा निःशंकाः संतिष्ठंति रमंति च ४१.
शिवाचारं न मन्यंते शिवभक्तान्द्विषंति षट् ४१.
अरिभिः परिभूतं वा यस्त्यजति स पापकृत् ४१.