ते तदा प्रोद्भविष्यंति तेषआं वृद्धिश्च पार्थिव ४०.
अधर्माभिनिवेशत्वात्तमसो जायते कलौ ४०.
तदाल्पेनैव काले न सिद्धिं गच्छंति मानवाः ४०.
श्रुतिस्मृतिपुराणोक्तं कलौ श्रद्धापरायणाः ४०.
यथा क्लेशं चरन्प्राज्ञस्तदह्ना प्राप्यते कलौ ४०.
यावंतः सिद्धिमायांति कलौ हरिहरव्रताः ४०.
त्रिषु वर्षसहस्रेषु कलेर्यातेषु पार्थिवः ४०.
शूद्रकोनाम वीराणामधिपः सिद्धिमत्र सः ४०.
ततस्त्रिषु सहस्रेषु दशाधिकशतत्रये ४०.
शुक्लतीर्थे सर्वपापनिर्मुक्तिं योऽभिलप्स्यति ४०.
भविष्यं विक्रमादित्यराज्यं सोऽथ प्रलप्स्यते ४०.
ततः शतसहस्रेषु शतेनाप्यधिकेषु च ४०.
ततस्त्रिषु सहस्रेषु षट्शतैरधिकेषु च ४०.
विष्णोरंशो धर्मपाता बुधः साक्षात्स्वयं प्रभुः ४०.
ज्योतिर्बिदुमुखानुग्रान्स हनिष्यति कोटिशः ४०.
भक्तेभ्यः स्वयशो मुक्त्वा दिवं पश्चाद्गमिष्यति ४०.
ततो वक्ष्यंति तं भक्त्या सर्वपापहरं बुधम् ४०.
साधिकेषु महान्राजा प्रमितिः प्रभविष्यति ४०.
म्लेच्छान्स कोटिशो हत्वा पाषंडानि च सर्वशः ४०.
गंगायमुनयोर्मध्ये निष्ठां यास्यति पार्थिवः ४०.
घोरं वा धर्ममाश्रित्य शाठ्येन च भवंति ताः ४०.
उपहिंसंति चान्योन्यं व्याकुलाः श्रमपीडिताः ४०.
निर्मर्यादा निष्करुणा निस्स्नेहा निरपत्रपाः ४०.
हाहाभूताश्चरिष्यंति विषादव्याकुलेंद्रियाः ४०.
प्रत्यंतांस्ता निषेवंति हित्वा जनपदान्स्वकान् ४०.
मांसैर्मूलफलैस्चैव वर्तयंति सुदुःखिताः ४०.
धर्मस्य वासमात्रं च शाल्वो म्लेच्छो हनिष्यति ४०.
ततस्तस्य वधार्थाय विष्णुः साक्षाज्जगत्पतिः ४०.
द्विजोत्तमैः परिवृतः शाल्वं तं संहरिष्यति ४०.
पालयिष्यति तं धर्मं यो धर्मः श्रुतिपूर्वकः॥ ४०.