निंदंति वेदवाक्यानि वेदार्थांश्च कलौ युगे ४०.
श्वापदप्रबलत्वं च गवां चापि परिक्षयः ४०.
साधूनां बहवो नाशाः पार्थिवाश्चाप्यरक्षिणः ४०.
प्रमदाः केशशूलिन्यो भविष्यंति कलौ युगे ४०.
बहुभक्ष्यावलिप्ताश्च कृत्या इव भवंति च ४०.
कुशीलचर्यापाषंडैर्वृथारूपैः समावृतः ४०.
अशंकश्चैव पापेषु तदा लोको भविष्यति ४०.
ऊनषोडशवर्षाश्च प्रजायंते युगक्षये ४०.
चौराश्चौरस्य हर्तारो हर्तुर्हर्त्ता तथापरः ४०.
कीटमूषकसर्पाश्च धर्षयिष्यंति मानवान् ४०.
ते तदा प्रोद्भविष्यंति तेषआं वृद्धिश्च पार्थिव ४०.
अधर्माभिनिवेशत्वात्तमसो जायते कलौ ४०.
तदाल्पेनैव काले न सिद्धिं गच्छंति मानवाः ४०.
श्रुतिस्मृतिपुराणोक्तं कलौ श्रद्धापरायणाः ४०.
यथा क्लेशं चरन्प्राज्ञस्तदह्ना प्राप्यते कलौ ४०.
यावंतः सिद्धिमायांति कलौ हरिहरव्रताः ४०.
त्रिषु वर्षसहस्रेषु कलेर्यातेषु पार्थिवः ४०.
शूद्रकोनाम वीराणामधिपः सिद्धिमत्र सः ४०.
ततस्त्रिषु सहस्रेषु दशाधिकशतत्रये ४०.
शुक्लतीर्थे सर्वपापनिर्मुक्तिं योऽभिलप्स्यति ४०.
भविष्यं विक्रमादित्यराज्यं सोऽथ प्रलप्स्यते ४०.
ततः शतसहस्रेषु शतेनाप्यधिकेषु च ४०.
ततस्त्रिषु सहस्रेषु षट्शतैरधिकेषु च ४०.
विष्णोरंशो धर्मपाता बुधः साक्षात्स्वयं प्रभुः ४०.
ज्योतिर्बिदुमुखानुग्रान्स हनिष्यति कोटिशः ४०.
भक्तेभ्यः स्वयशो मुक्त्वा दिवं पश्चाद्गमिष्यति ४०.
ततो वक्ष्यंति तं भक्त्या सर्वपापहरं बुधम् ४०.
साधिकेषु महान्राजा प्रमितिः प्रभविष्यति ४०.
म्लेच्छान्स कोटिशो हत्वा पाषंडानि च सर्वशः ४०.
गंगायमुनयोर्मध्ये निष्ठां यास्यति पार्थिवः ४०.