शूद्रा विप्रैः सहासंते शयनासनभोजनैः ४०.
राजवृत्त्यां स्थिताश्चौराश्चौराचाराश्च पार्थिवाः ४०.
तदा ह्यल्पफला भूमिः क्वचिच्चापि महाफला ४०.
अक्षत्रियास्तु राजानो विप्राः शूद्रोपजीविनः ४०.
आसनस्थान्द्विजान्दृष्ट्वा चलंत्यत्यल्पबुद्धयः ४०.
नीचस्यापि तदा वाक्यं वक्ष्यंति विनयेन तम् ४०.
ज्ञात्वा न हिंसते राजा पश्य कालबलं नृप ४०.
शूद्रानभ्यर्चयंत्यल्पश्रुतभाग्यबलान्विताः ४०.
येन ते रौरवं यांति सुदुस्तारं द्विजाधमाः ४०.
यतयश्च भविष्यंति बहवः कोटिशः कलौ ४०.
निंदंति वेदवाक्यानि वेदार्थांश्च कलौ युगे ४०.
श्वापदप्रबलत्वं च गवां चापि परिक्षयः ४०.
साधूनां बहवो नाशाः पार्थिवाश्चाप्यरक्षिणः ४०.
प्रमदाः केशशूलिन्यो भविष्यंति कलौ युगे ४०.
बहुभक्ष्यावलिप्ताश्च कृत्या इव भवंति च ४०.
कुशीलचर्यापाषंडैर्वृथारूपैः समावृतः ४०.
अशंकश्चैव पापेषु तदा लोको भविष्यति ४०.
ऊनषोडशवर्षाश्च प्रजायंते युगक्षये ४०.
चौराश्चौरस्य हर्तारो हर्तुर्हर्त्ता तथापरः ४०.
कीटमूषकसर्पाश्च धर्षयिष्यंति मानवान् ४०.
ते तदा प्रोद्भविष्यंति तेषआं वृद्धिश्च पार्थिव ४०.
अधर्माभिनिवेशत्वात्तमसो जायते कलौ ४०.
तदाल्पेनैव काले न सिद्धिं गच्छंति मानवाः ४०.
श्रुतिस्मृतिपुराणोक्तं कलौ श्रद्धापरायणाः ४०.
यथा क्लेशं चरन्प्राज्ञस्तदह्ना प्राप्यते कलौ ४०.
यावंतः सिद्धिमायांति कलौ हरिहरव्रताः ४०.
त्रिषु वर्षसहस्रेषु कलेर्यातेषु पार्थिवः ४०.
शूद्रकोनाम वीराणामधिपः सिद्धिमत्र सः ४०.
ततस्त्रिषु सहस्रेषु दशाधिकशतत्रये ४०.
शुक्लतीर्थे सर्वपापनिर्मुक्तिं योऽभिलप्स्यति ४०.