जैगीषव्यश्च भाव्यो वै भगवान्दधिवाहनः ४०.
गौतमौ वेदशीर्णश्च गोकर्णश्च शिखंडिभृत् ४०.
लांगली संयमी शूली डिंडी जुण्डीश्वरः स्वयम् ४०.
कायावरोहणो भावीत्याद्या योगेश्वराः क्रमात् ४०.
एवं कलियुगे राजञ्छास्त्रसंक्षेप उच्यते ४०.
तिष्ये मायामसूयां च वधं चैव तपस्विनाम् ४०.
कलौ प्रमाथको रागः सततं क्षुद्भयानि च ४०.
न प्रमाणं श्रुतेरस्ति नृणां चाधर्मसेवनात् ४०.
अनृतं ब्रुवते लुब्धा नारीप्रायाश्च दुष्प्रजाः ४०.
विप्राणां कर्मदोषैश्च प्रजानां जायते क्षयः ४०.
शूद्रा विप्रैः सहासंते शयनासनभोजनैः ४०.
राजवृत्त्यां स्थिताश्चौराश्चौराचाराश्च पार्थिवाः ४०.
तदा ह्यल्पफला भूमिः क्वचिच्चापि महाफला ४०.
अक्षत्रियास्तु राजानो विप्राः शूद्रोपजीविनः ४०.
आसनस्थान्द्विजान्दृष्ट्वा चलंत्यत्यल्पबुद्धयः ४०.
नीचस्यापि तदा वाक्यं वक्ष्यंति विनयेन तम् ४०.
ज्ञात्वा न हिंसते राजा पश्य कालबलं नृप ४०.
शूद्रानभ्यर्चयंत्यल्पश्रुतभाग्यबलान्विताः ४०.
येन ते रौरवं यांति सुदुस्तारं द्विजाधमाः ४०.
यतयश्च भविष्यंति बहवः कोटिशः कलौ ४०.
निंदंति वेदवाक्यानि वेदार्थांश्च कलौ युगे ४०.
श्वापदप्रबलत्वं च गवां चापि परिक्षयः ४०.
साधूनां बहवो नाशाः पार्थिवाश्चाप्यरक्षिणः ४०.
प्रमदाः केशशूलिन्यो भविष्यंति कलौ युगे ४०.
बहुभक्ष्यावलिप्ताश्च कृत्या इव भवंति च ४०.
कुशीलचर्यापाषंडैर्वृथारूपैः समावृतः ४०.
अशंकश्चैव पापेषु तदा लोको भविष्यति ४०.
ऊनषोडशवर्षाश्च प्रजायंते युगक्षये ४०.
चौराश्चौरस्य हर्तारो हर्तुर्हर्त्ता तथापरः ४०.
कीटमूषकसर्पाश्च धर्षयिष्यंति मानवान् ४०.