तदा प्रभृति चौषध्यः फालकृष्टाः प्रजास्ततः ४०.
वर्णाश्रमप्रतिष्ठा च यज्ञस्त्रेतासु चोच्यते ४०.
पुष्पितां वाचमाश्रित्य रागात्स्वर्गमसाधयन् ४०.
मनसा कर्मणा वाचा कृच्छ्राद्वार्ता प्रसिध्यति ४०.
वर्णाश्रमपरिध्वंसाः प्रवर्तंते च द्वापरे ४०.
एको वेदश्चतुष्पादैः क्रियते द्विजहेतवे ४०.
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ४०.
आग्नेयमष्टमं प्रोक्तं भविष्यं नवमं स्मृतम् ४०.
वाराहं द्वादशं चैव स्कांदं चैव त्रयोदशम् ४०.
मात्स्यं षोडशकं प्रोक्तं गारुडं च ततः परम् ४०.
अस्मिन्वाराहकल्पे च व्यासानाकर्णयस्व च ४०.
मृत्युः शतक्रतुर्धीमान्वसिष्ठो भविताऽधुना ४०.
शततेजाः स्वयं विष्णुर्नारायण इति स्मृतः ४०.
कृतंजयो भरद्वाजो गौतमः कविसत्तमः ४०.
तृणबिंदुस्तथा ऋक्षः शक्तिः पाराशरस्तथा ४०.
अश्वत्थाममुखाश्चैते भविष्याः सूचितास्तव ४०.
मन्वत्रिविष्णुहारितयाज्ञवल्क्योशनोंगिराः ४०.
पराशरव्यासशंखलिखिता दक्षगौतमौ ४०.
ततो द्वापरसंध्यायां प्रवर्तति कलौ युगे ४०.
आद्ये श्वेतकलौरुद्रः सुतारस्तारणस्तथा ४०.
जैगीषव्यश्च भाव्यो वै भगवान्दधिवाहनः ४०.
गौतमौ वेदशीर्णश्च गोकर्णश्च शिखंडिभृत् ४०.
लांगली संयमी शूली डिंडी जुण्डीश्वरः स्वयम् ४०.
कायावरोहणो भावीत्याद्या योगेश्वराः क्रमात् ४०.
एवं कलियुगे राजञ्छास्त्रसंक्षेप उच्यते ४०.
तिष्ये मायामसूयां च वधं चैव तपस्विनाम् ४०.
कलौ प्रमाथको रागः सततं क्षुद्भयानि च ४०.
न प्रमाणं श्रुतेरस्ति नृणां चाधर्मसेवनात् ४०.
अनृतं ब्रुवते लुब्धा नारीप्रायाश्च दुष्प्रजाः ४०.
विप्राणां कर्मदोषैश्च प्रजानां जायते क्षयः ४०.