"मंत्रा दैवता यद्यद्विद्वान्मन्त्रवत्करोति देवताभिरेव तत्करोति यद्ददानि देवताभिरेव तद्ददाति यत्प्रतिगृह्णाति देवताभिरेव तत्प्रतिगृह्णाति तस्मान्नामन्त्रवत्प्रतिगृह्णीयात् नामन्त्रवत्प्रतिपद्यते" इति॥ ४०.
तस्मान्मंत्रैः सदा देयं पौराणैर्वैदिकैरपि ४०.
दर्भांस्तिलानक्षतांश्च तोयं चैतैः सुसंयुतम् ४०.
पुरा किल प्रदत्तानि भूमेर्दानानि भूरिशः ४०.
ततो देवाश्च पितरः प्रत्यूचुः पद्मसंभवम्॥ ४०.
स्वामिन्नः पश्यतामेव सर्वं दैत्यैः प्रगृह्यते ४०.
ततो विमृश्यैव विधी रक्षोपायमचीकरत् ४०.
तोयं दर्भांश्च सर्वत्र एवं गृह्णन्ति नासुराः ४०.
निःश्वस्य पितरो देवा यांति दातुः फलं न हि ४०.
चतुर्युगव्यवस्थानं श्रोतुमिच्छमि तत्त्वतः ४०.
आद्यं कृतयुगं विद्धिततस्त्रेतायुगं स्मृतम् ४०.
सत्त्वं कृतं रजस्त्रेता द्वापरं च रजस्तमः ४०.
ध्यानं परं कृतयुगे त्रेतायां यज्ञ उच्यते ४०.
कृते तु मानसी सृष्टिर्वृत्तिः साक्षाद्रसोल्लसा ४०.
अधमोत्तमो न तासां ता निर्विशेषाः प्रजाः शुभाः ४०.
न चाप्रीतिर्न च द्वंद्वो न द्वेषो नापि च क्लमः ४०.
वर्णाश्रमव्यवस्था च तदासीन्न हि संकरः ४०.
चतुर्थे च ततः पादे नष्ट साऽभूद्रसोल्लसा ४०.
वस्त्राणि च प्रसूयंते फलान्याभरणानि च ४०.
सुमाक्षिकं महावीर्यं पुटके पुटके मधु ४०.
हृष्टपुष्टास्तथा वृद्धाः प्रजा वै विगतज्वराः ४०.
युगभावात्तथा ध्याने स्वल्पीभूते शिवस्य च ४०.
तासां तेनोपचारेण लोभदोषकृतेन वै ४०.
तस्यां चाप्यल्पशिष्टायां द्वंद्वान्यभ्युत्थितानि वै ४०.
चक्रुरावरणार्थं हि केतनानि ततस्ततः ४०.
वृष्ट्या बभूवुरौषध्यो ग्राम्यारण्याश्चतुर्दश ४०.
ऋतु पुष्पफलैश्चैव वृक्षगुल्माश्च जज्ञिरे ४०.
ततः पुनरभूत्तासां रागो लोभश्च सर्वतः ४०.
वृक्षगुल्मौषधीश्चैव प्रसह्याशु यथाबलम् ४०.
नत्वा धरां प्रविष्टास्ता ओषध्यः पीडिताः प्रजाः ४०.