देवानां चापि दृश्यंते प्रत्यक्षाः प्रत्ययाः सदा ४०.
योनिरेवंविदा तेषां पितॄणां च दिवौकसाम् ४०.
भव्यं भूतं भविष्यच्च सर्वं जानंति यांति च ४०.
नवतत्त्वमयं देहं दशमः पुरुषो मतः ४०.
शब्दतत्त्वेन तुष्यंति स्पर्शतत्त्वं च गृह्णते ४०.
यथा तृणं पशूनां च नराणामन्नमुच्यते ४०.
शक्तयः सर्वभावानामचिंत्या ज्ञानगोचराः ४०.
पितृभ्यो दीयते श्राद्धं स्वकर्मवशगाश्च ते ४०.
अथ स्वर्गेऽथ नरेक स्थिताः कर्माभियंत्रिताः ४०.
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुकानि च ४०.
सत्यमेततस्वकर्मस्थाः पितरो यन्नृपोत्तम ४०.
मूर्ताश्चतुर्णां वर्णानां पितरः सप्तधा स्मृताः ४०.
एकत्रिंशद्गणा येषां पितॄणां प्रबला नृप ४०.
ते तृप्तास्तर्पयन्त्यस्य पूर्वजान्यत्र संस्थितान् ४०.
भूतादिभ्यो यथा विप्र नाम्ना वोद्दिश्य दीयते ४०.
इदं पितृभ्यो देवेभ्यो द्विजेभ्यः पावकाय च ४०.
उचिता प्रतिपत्तिश्च कार्या सर्वेषु नित्यशः ४०.
यथा श्वा गृहद्वारस्थो बलिं गृह्णाति किं तथा ४०.
एवं ते भूतवद्देवा न हि गृह्णन्ति कर्हिचित् ४०.
विना मंत्रैश्च यद्दत्तं न तद्गृह्णन्ति तेऽमलाः ४०.
"मंत्रा दैवता यद्यद्विद्वान्मन्त्रवत्करोति देवताभिरेव तत्करोति यद्ददानि देवताभिरेव तद्ददाति यत्प्रतिगृह्णाति देवताभिरेव तत्प्रतिगृह्णाति तस्मान्नामन्त्रवत्प्रतिगृह्णीयात् नामन्त्रवत्प्रतिपद्यते" इति॥ ४०.
तस्मान्मंत्रैः सदा देयं पौराणैर्वैदिकैरपि ४०.
दर्भांस्तिलानक्षतांश्च तोयं चैतैः सुसंयुतम् ४०.
पुरा किल प्रदत्तानि भूमेर्दानानि भूरिशः ४०.
ततो देवाश्च पितरः प्रत्यूचुः पद्मसंभवम्॥ ४०.
स्वामिन्नः पश्यतामेव सर्वं दैत्यैः प्रगृह्यते ४०.
ततो विमृश्यैव विधी रक्षोपायमचीकरत् ४०.
तोयं दर्भांश्च सर्वत्र एवं गृह्णन्ति नासुराः ४०.
निःश्वस्य पितरो देवा यांति दातुः फलं न हि ४०.
चतुर्युगव्यवस्थानं श्रोतुमिच्छमि तत्त्वतः ४०.