महाकालचरित्रं च तत्रैव समुपाययौ ४०.
महाकालमनुप्राप्य परमां प्रीतिमागतः ४०.
यथा दरिद्रः कृपणो निधिकुम्भमवाप्य च ४०.
पंचमंत्रायुतजपफलं यस्येह दर्शनात् ४०.
श्रुत्वा च लिंगप्रवरं महाकालमुपासदत् ४०.
प्रत्युद्गम्य नृपं पूजामर्घं च प्रत्यपादयत् ४०.
महाकालमुपामंत्र्य कथांते वाक्यमब्रवीत् ४०.
यदिदं तर्पणंनाम पितॄणां क्रियते नृभिः ४०.
एवं पिंडादिपूजा च सर्वमत्रैव दृश्यते ४०.
न चैतदस्ति यत्तेषां नोपतिष्ठति किंचन ४०.
देवानां चापि दृश्यंते प्रत्यक्षाः प्रत्ययाः सदा ४०.
योनिरेवंविदा तेषां पितॄणां च दिवौकसाम् ४०.
भव्यं भूतं भविष्यच्च सर्वं जानंति यांति च ४०.
नवतत्त्वमयं देहं दशमः पुरुषो मतः ४०.
शब्दतत्त्वेन तुष्यंति स्पर्शतत्त्वं च गृह्णते ४०.
यथा तृणं पशूनां च नराणामन्नमुच्यते ४०.
शक्तयः सर्वभावानामचिंत्या ज्ञानगोचराः ४०.
पितृभ्यो दीयते श्राद्धं स्वकर्मवशगाश्च ते ४०.
अथ स्वर्गेऽथ नरेक स्थिताः कर्माभियंत्रिताः ४०.
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुकानि च ४०.
सत्यमेततस्वकर्मस्थाः पितरो यन्नृपोत्तम ४०.
मूर्ताश्चतुर्णां वर्णानां पितरः सप्तधा स्मृताः ४०.
एकत्रिंशद्गणा येषां पितॄणां प्रबला नृप ४०.
ते तृप्तास्तर्पयन्त्यस्य पूर्वजान्यत्र संस्थितान् ४०.
भूतादिभ्यो यथा विप्र नाम्ना वोद्दिश्य दीयते ४०.
इदं पितृभ्यो देवेभ्यो द्विजेभ्यः पावकाय च ४०.
उचिता प्रतिपत्तिश्च कार्या सर्वेषु नित्यशः ४०.
यथा श्वा गृहद्वारस्थो बलिं गृह्णाति किं तथा ४०.
एवं ते भूतवद्देवा न हि गृह्णन्ति कर्हिचित् ४०.
विना मंत्रैश्च यद्दत्तं न तद्गृह्णन्ति तेऽमलाः ४०.