सोमकप्रमुखान्दैत्यान्हंतुमात्मेच्छया मम
न किंचिदपि पश्यंति रजसारूढदृष्टयः
अविनाभाविनी शक्तिर्ननु मे पद्मवासिनी
भूतान्यमूनि कालोऽयमात्मनोप्यहमेव हि
प्र आदित्या वसवो रुद्रा दिक्पाला मनवोऽप्यहम् 1.3.2.9.
ममैव विनियोगेन सृष्टिशक्तिः स्वयं स्थिता
ययावनल्पसमयःसवर्तसदृशस्तयो.
उदयास्तमयौ स्यातां न तदा चंद्रसूर्ययोः
नाववुर्मरुतो वा न जज्वलुर्जातवेदसः
समुद्राश्चुक्षुभुस्सर्वे पर्वताश्च चकंपिरे
पक्षमासर्तुवर्षादिकालस्य नियमो गतः
इन्द्रादयो लोकपाला मरीच्याद्या महर्षयः
एवं जाते महाक्षोभे भूताक्रन्दप्रचोदितः
व्यचिंतयच्च विश्वात्मा विश्वसंरक्षणोद्यतः
स्वामिनं सकलैश्वर्यदातारं मां मदोद्धतौ 1.3.2.9.
अहो मोहस्य माहात्म्यं वदिमौ द्रुहिणाच्युतौ
अज्ञानतिमिरोद्भूति दूषिताशयलोचनः
कृतापराधावप्येतौ निमग्नौ मोहसागरे
इति निश्चित्य मनसा माया वैवश्यमेतयोः
अहोऽनुकम्पा तरुणेंदुमौलेः स्वभावसिद्धा भुवनत्रयेऽस्मिन्
मार्कण्डेय उवाच आज्ञापय विभो मह्यं यथा शंभुः सनातनः
यदेव देवो विदधे दयया भक्तवत्सलः
अथोदस्थात्तयोर्मध्ये तथा विवदमानयोः
महता जृंभमाणेन तस्य ब्रह्मांडभेदिनः
विष्वग्विवर्णता तस्य ज्योतिर्लिंगस्य तेजसा
तीव्रैस्तस्य महाज्वालैः शोषिता इव सागराः
व्यद्योतंत दिवि प्राग्वद्वहास्तारागणैः सह
तेजसा तस्य शोणेन गैरिकेणेव रंजिताः
समुद्रास्तत्प्रतिच्छायानिर्भराश्लिष्ट यादसः
प्रवालगुच्छैः प्रत्यग्रैर्लंबिता इव पादपाः 1.3.2.10.