अघोरवक्त्रं त्रितयं प्रपद्ये अथर्वजुष्टं तव रूपकाणि ४०.
चतुर्थवक्त्रं च सदा प्रपद्ये सद्योभिजाताय नमोनमस्ते ४०.
नमोस्तु ते वामदेवाय ज्येष्ठरुद्राय कालाय कलाविकारिणे ४०.
त्रियंबकं त्वां च यजामहे वयं सुपुण्यगंधैः शिवपुष्टिवर्धनम् ४०.
षडक्षरं मंत्रवरं तवेश जपंति ये मुनयो वीतरागाः ४०.
एवं स्तुतो महादेवो लिंगान्निःसृत्य भारत ४०.
यत्त्वयात्र महातीर्थे भृशमाराधितो द्विज ४०.
अहं च नररूपी यो दृष्ट्वा ते धर्मसंस्थितिम् ४०.
सर्वतीर्थोदकैर्गरतः पूरितो मे सरस्तथा ४०.
सप्तमंत्ररहस्यं च यत्कृतं स्तवनं मम ४०.
अभीष्टं च वरं मत्तो वृणीष्व मनसेप्सितम् ४०.
धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वं तुष्टोऽसि शंकर ४०.
यदि तुष्टोऽसि सांनिद्यं लिंगेऽत्र क्रियतां सदा ४०.
जपतो यत्फलं देवपंचमंत्रायुतेन च ४०.
कालमार्गादहं यस्मान्मोचितोऽहं महेश्वर ४०.
अस्मिंश्च कूपे यो मर्त्यः स्नात्वा तर्पयते पितॄन् ४०.
इति तस्यवचः श्रुत्वा प्रीतस्तं शंकरोऽब्रवीत् ४०.
स्वयंभुबाणरत्नोत्थदातुपाषाणलोहजम् ४०.
आकाशे तारकालिंगं पाताले हाटकेश्वरम् ४०.
विशेषात्प्रार्थितं यच्च तच्च भविष्यति ४०.
दानं वान्यश्च यत्किंचिदक्षयं तद्भविष्यति ४०.
लिंगाच्च पूर्वतः कूपेस्नात्वा यस्तर्पयेत्पितॄन् ४०.
तस्यां रात्रौ महाकालं यामेयामे प्रपूजयेत् ४०.
जितेंद्रियश्च यो नित्यं मां लिंगेत्र प्रपूजयेत् ४०.
माघे चतुर्दश्यष्टम्यां सोमवारे च पर्वणि ४०.
दानं तपो रुद्रजापः सर्वमक्षयमेव च ४०.
कालमार्गजयाद्वत्स महाकाला भिधश्चिरम् ४०.
तस्य प्रोच्य भवान्धर्मांस्ततो मल्लोकमाव्रज ४०.
महाकालोऽपि मुदितस्तत्र तेपे महत्तपः॥ ४०.
अथ केनापि कालेन पार्थ राजा करंधमः ४०.