दृष्ट्वा प्रत्यक्षतो मादृक्कथं पिबति भो वद ४०.
एवं विनिश्चयं दृष्ट्वास्य स्थिरं कुरुनंदन ४०.
कालभीतिश्च परमं विस्मयं समुपागतः ४०.
ततश्चिंतयतस्तस्य बिल्वाधस्तात्सुशोभनम् ४०.
प्रादुर्भावे ततस्तस्य महालिंगस्य भारत ४०.
पारिजातमयीं पुष्पवृष्टिमिंद्रो मुमोच ह ४०.
तस्मिन्महति कौरव्य वर्तमाने महोत्सवे ४०.
पापस्य कालं भवपंककालं कलाकलं कालमार्गस्य कालम् ४०.
ईशानवक्त्रं प्रणमामि त्वाहं स्तौति श्रुतिः सर्वविद्येश्वरस्त्वम् ४०.
यं स्तौति वेदस्तमहं प्रपद्ये तत्पुरुषसंज्ञं शरणं द्वितीयम् ४०.
अघोरवक्त्रं त्रितयं प्रपद्ये अथर्वजुष्टं तव रूपकाणि ४०.
चतुर्थवक्त्रं च सदा प्रपद्ये सद्योभिजाताय नमोनमस्ते ४०.
नमोस्तु ते वामदेवाय ज्येष्ठरुद्राय कालाय कलाविकारिणे ४०.
त्रियंबकं त्वां च यजामहे वयं सुपुण्यगंधैः शिवपुष्टिवर्धनम् ४०.
षडक्षरं मंत्रवरं तवेश जपंति ये मुनयो वीतरागाः ४०.
एवं स्तुतो महादेवो लिंगान्निःसृत्य भारत ४०.
यत्त्वयात्र महातीर्थे भृशमाराधितो द्विज ४०.
अहं च नररूपी यो दृष्ट्वा ते धर्मसंस्थितिम् ४०.
सर्वतीर्थोदकैर्गरतः पूरितो मे सरस्तथा ४०.
सप्तमंत्ररहस्यं च यत्कृतं स्तवनं मम ४०.
अभीष्टं च वरं मत्तो वृणीष्व मनसेप्सितम् ४०.
धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वं तुष्टोऽसि शंकर ४०.
यदि तुष्टोऽसि सांनिद्यं लिंगेऽत्र क्रियतां सदा ४०.
जपतो यत्फलं देवपंचमंत्रायुतेन च ४०.
कालमार्गादहं यस्मान्मोचितोऽहं महेश्वर ४०.
अस्मिंश्च कूपे यो मर्त्यः स्नात्वा तर्पयते पितॄन् ४०.
इति तस्यवचः श्रुत्वा प्रीतस्तं शंकरोऽब्रवीत् ४०.
स्वयंभुबाणरत्नोत्थदातुपाषाणलोहजम् ४०.
आकाशे तारकालिंगं पाताले हाटकेश्वरम् ४०.
विशेषात्प्रार्थितं यच्च तच्च भविष्यति ४०.