शुद्ध्यर्थं तेन विश्वस्य स्थापिता संस्थितिर्यथा ४०.
ससर्जेति पुरा धाता रूपात्मकमिदं जगत् ४०.
स च नामप्रपञ्चस्तु चतुर्द्धा भिद्यते किल ४०.
तत्र ध्वनिर्नादमयो वर्णाश्चाकारपूर्वकाः ४०.
तच्चापि वाक्यं त्रिविधं भवेदिति श्रुतेर्मतम् ४०.
कांतासंमतमेवापि वाक्यं हि त्रिविधं विदुः ४०.
तथा श्रुतिस्मृती चोभे प्राहतुः प्रभुसंमतम् ४०.
सुहृद्वत्प्रतिबोध्यैनं प्रवर्तयति तत्त्वतः ४०.
प्रभुवाक्यं स्मृतं यच्च सबाह्याभ्यंतरं शुचि ४०.
तदेतत्पालनीयं स्याद्भूमिजानां श्रुतिर्वदेत् ४०.
एतेन श्रुतिशास्त्राणि पुराणं च वृतैव किम् ४०.
मुग्धाः सर्वेऽभवन्दक्षा ये हि वेदं गता ह्यनु ४०.
तिष्ठंति राजसा मध्ये ह्यधो गच्छंति तामसाः ४०.
न चैतदप्य सूयामो यद्भूतेषु शिवो न हि ४०.
यथा सुवर्णजातानि भूषणानि बहूनि च ४०.
स्वर्णं सर्वेषु चास्त्येव तथैव स सदाशिवः ४०.
तथेदं शोधितं देहं शुद्धं दिवि व्रजेत्स्फुटम् ४०.
चेदिदं शोधयेद्देहं नैव ग्राह्यं समंततः ४०.
शुचिः स्यादल्पदिवसात्पाषाणोऽसौ भवेत्स्फुटम् ४०.
साधुवाप्यथवाऽसाधु प्रमाणं नः श्रुतिः परा ४०.
अंगुष्ठेन लिखन्भूमिं चक्रे गर्तं महोत्तमम् ४०.
अत्यरिच्यत तोयं च चक्रे पादेन संलिखन् ४०.
तदद्भुतं महद्दृष्ट्वा नैव विप्रो विसिष्मिये ४०.
तच्चित्रेण न जह्याच्च श्रुतिमार्गं सनातनम्॥ ४०.
अतिमूर्खोसि विप्र त्वं प्रज्ञावादांश्च भाषसे कूपोन्यस्य घटोऽन्यस्य रज्जुरन्यस्य भारत॥ ४०.
पायंत्यन्ये पिबंत्यन्ये सर्वे ते समभागिनः ४०.
ततो विममृशे श्लोको बहुधा समभागिनाम् ४०.
बहुपोतद्रव्यक्षेपः सर्वैः सा समभागिता ४०.
यः शुचिश्च शिवं ध्यायन्प्रासादकूपकर्तरि ४०.
इति निश्चित्य प्रोवाच कालभीतिर्नरं च तम् ४०.