गृहीत्वा नियमं तोयबिंदुं वर्षशतेऽग्निवत् ४०.
कश्चित्तोयभृतं कुम्भं गृहीत्वा नर आव्रजत् ४०.
अद्य ते नियमः पूर्णस्तोयमेतन्महामते ४०.
को भवान्वर्णतो ब्रूहि किमाचारश्च तत्त्वतः ४०.
न जाने पितरौ स्वीयौ नष्टौ वा सर्वथा न हि ४०.
आचारैश्चापि धर्मैश्च न कार्यं मम किंचन ४०.
यद्येवं नोदकं तुभ्यं ग्रहीष्याम्यस्मि कर्हिचित् ४०.
न ज्ञायते कुलं यस्य बीजशुद्धिं विना ततः ४०.
यश्च रुद्रं न जानाति रुद्रभक्तश्च यो नहि ४०.
अज्ञात्वा यः शिवं भुंक्ते कथ्यते सोऽत्र ब्रह्महा ४०.
गंगोदकुम्भः स्याद्यद्वत्तन्मध्ये मद्यबिंदुना ४०.
हीनवर्णश्च यः स्याद्धि शिवभक्तोऽपि नैव सः ४०.
एतेन तव वाक्येन हास्यं संजायते मम ४०.
सदा सर्वेषु भूतेषु शिवो वसति नित्यशः ४०.
आत्मनश्च परस्यापि यः करोत्यंतरो हरम् ४०.
अथवा का हि पानीये भवेदशुचिता वद ४०.
पूर्णश्च पयसा कस्मिन्नेषामशुचिता कुतः॥ ४०.
अथ चेन्मम संसर्गादशुचित्वं च मीयते ४०.
कुतः पृथिव्यां चरसि खे त्वं नैव चरस्युत ४०.
सर्वभूतेषु चेदेवं शिव एवेति चोच्यते ४०.
शुद्ध्यर्थं तेन विश्वस्य स्थापिता संस्थितिर्यथा ४०.
ससर्जेति पुरा धाता रूपात्मकमिदं जगत् ४०.
स च नामप्रपञ्चस्तु चतुर्द्धा भिद्यते किल ४०.
तत्र ध्वनिर्नादमयो वर्णाश्चाकारपूर्वकाः ४०.
तच्चापि वाक्यं त्रिविधं भवेदिति श्रुतेर्मतम् ४०.
कांतासंमतमेवापि वाक्यं हि त्रिविधं विदुः ४०.
तथा श्रुतिस्मृती चोभे प्राहतुः प्रभुसंमतम् ४०.
सुहृद्वत्प्रतिबोध्यैनं प्रवर्तयति तत्त्वतः ४०.
प्रभुवाक्यं स्मृतं यच्च सबाह्याभ्यंतरं शुचि ४०.
तदेतत्पालनीयं स्याद्भूमिजानां श्रुतिर्वदेत् ४०.