तस्यानंदस्य नौपम्यं स्वर्गादीनां भवेत्क्वचित् ४०.
तत्र लीनो मुहुर्तेन पुनश्चाभूद्यथा पुरा ४०.
नायं मम महानन्दो वाराणस्यां न नमिषे ४०.
श्रीपर्वते न चान्यत्र यादृशोद्यप्रवर्त्तते ४०.
भूतेषु परमा प्रीतिस्त्रिजगद्द्योतते स्फुटम् ४०.
अहो स्थानप्रभावोऽयं स्फुटं चाप्यत्र प्रोच्यते ४०.
तत्र स्थितस्य धर्मार्थस्तद्वद्भूयात्सहस्रधा ४०.
विशिष्टं काशिमुख्येभ्यस्तीर्थेभ्यः स्थानकं त्विदम् ४०.
इदं चेदं तीर्थमिति सदा यस्तृषितश्चरेत् ४०.
इति संचिंत्य बिल्वस्य वृक्षस्याधो व्यवस्थितः ४०.
गृहीत्वा नियमं तोयबिंदुं वर्षशतेऽग्निवत् ४०.
कश्चित्तोयभृतं कुम्भं गृहीत्वा नर आव्रजत् ४०.
अद्य ते नियमः पूर्णस्तोयमेतन्महामते ४०.
को भवान्वर्णतो ब्रूहि किमाचारश्च तत्त्वतः ४०.
न जाने पितरौ स्वीयौ नष्टौ वा सर्वथा न हि ४०.
आचारैश्चापि धर्मैश्च न कार्यं मम किंचन ४०.
यद्येवं नोदकं तुभ्यं ग्रहीष्याम्यस्मि कर्हिचित् ४०.
न ज्ञायते कुलं यस्य बीजशुद्धिं विना ततः ४०.
यश्च रुद्रं न जानाति रुद्रभक्तश्च यो नहि ४०.
अज्ञात्वा यः शिवं भुंक्ते कथ्यते सोऽत्र ब्रह्महा ४०.
गंगोदकुम्भः स्याद्यद्वत्तन्मध्ये मद्यबिंदुना ४०.
हीनवर्णश्च यः स्याद्धि शिवभक्तोऽपि नैव सः ४०.
एतेन तव वाक्येन हास्यं संजायते मम ४०.
सदा सर्वेषु भूतेषु शिवो वसति नित्यशः ४०.
आत्मनश्च परस्यापि यः करोत्यंतरो हरम् ४०.
अथवा का हि पानीये भवेदशुचिता वद ४०.
पूर्णश्च पयसा कस्मिन्नेषामशुचिता कुतः॥ ४०.
अथ चेन्मम संसर्गादशुचित्वं च मीयते ४०.
कुतः पृथिव्यां चरसि खे त्वं नैव चरस्युत ४०.
सर्वभूतेषु चेदेवं शिव एवेति चोच्यते ४०.