नमस्कृत्य महाकालं वरदं स्थाणुमव्ययम् ४०.
वाराणस्यां पुरि पुरा बभूव जपतां वरः ४०.
तस्यापुत्रस्य पुत्रार्थे रुद्रान्संजपतः किल ४०.
मांटे तव सुतो धीमान्मत्प्रभावपराक्रमः ४०.
इति श्रुत्वा रुद्रवचो मांटिर्हर्षं परं गतः ४०.
दधार गर्भं चटिका तपोमूर्तिधरा यथा ४०.
न पुनर्मातुरुदरंत्यक्त्वा निर्गच्छते बहिः ४०.
वत्स सामान्यपुत्रोऽपि पित्रोः सुखकरः सदा ४०.
वत्स मानुष्यवासस्य स्पृहा तुभ्यं कथं न हि ४०.
कदा मनुष्या जायेम पूजा यत्र महाफला ४०.
इति भूतानि शोचंति नानायोनिगतान्यपि अनादृत्य कथं ब्रूहि स्थितश्चोदर एव च॥ ४०.
तात जानाम्यहं सर्वमेतत्परम दुर्लभम् ४०.
द्वौ मार्गौ किल वेदेषु प्रोक्तौ कालोऽर्चिरेव च ४०.
स्वर्गे वा नरके वापि कालमार्गगतो ह्ययम् ४०.
तस्यैव हेतोः प्रयतेत्कोविदो यन्न दुःखवित् ४०.
तच्चेन्मम मनस्तात नानादोषैर्न मोह्यते ४०.
ततस्तस्य पिता पार्थ कांदिशीको महेश्वरम् ४०.
त्वां विना कोऽपरो देव पुत्रस्याभीष्टदोऽस्ति मे ४०.
ततस्तस्यातिभक्त्यासौ प्राह तुष्टो महेश्वरः ४०.
विपरीतश्च शीघ्रं भो मांटिपुत्रः प्रबोध्यताम् ४०.
महामते मांटिपुत्र न धार्यं ते भयं हृदि ४०.
ततोऽपरास्त्वधर्माद्याः प्रोचुर्नैव तथा वयम् ४०.
इत्युक्ते स विभूतीभिः शीघ्रमेव कुमारकः ४०.
ततो विभूतयः प्राहुर्मांटे तव सुतस्त्वसौ ४०.
कालभीतिरिति ख्यातस्तस्मादेष भविष्यति ४०.
सोऽपि बालः प्रववृधे शुक्लपक्ष इवोडुपः ४०.
पंचमंत्राञ्जपञ्छुद्धस्तीर्थयात्रापरोऽभवत् ४०.
कालभीतिगुप्तक्षेत्रगुणाञ्छ्रुत्वाभ्युपाययौ ४०.
निवृत्तो नातिदूरेथ बिल्ववृक्षं ददर्श सः ४०.
जपतस्तस्य विप्रस्य इंद्रियाणि लयं ययुः ४०.