तस्मात्त्वमत्र तीर्थे च महाकालमिति स्मृतम् ३९.
ततः सा रुद्रवाक्येन वरयामास तं पतिम् ३९.
तत्र तां पार्वती प्राह समालिंग्य प्रहर्षिता ३९.
चित्रलेखेतिनाम्ना त्वं तस्माद्भव सखी मम ३९.
ययानिरुद्धः कथित उषायाः पतिरुत्तमः ३९.
अप्सुसा वार्षिकं बिंदुं पूर्णे वर्षशते पपौ ३९.
एवंविधा कुमारी सा लिंगमेतद्धि फाल्गुन ३९.
तस्मादत्र नृणां दाहश्चास्थिक्षेपश्च भारत ३९.
महाकालस्त्वसौ कश्च कथं सिद्धिमुपागतः ४०.
सर्वमेतत्समाख्याहि श्रद्दधानाय पृच्छते॥ ४०.
नमस्कृत्य महाकालं वरदं स्थाणुमव्ययम् ४०.
वाराणस्यां पुरि पुरा बभूव जपतां वरः ४०.
तस्यापुत्रस्य पुत्रार्थे रुद्रान्संजपतः किल ४०.
मांटे तव सुतो धीमान्मत्प्रभावपराक्रमः ४०.
इति श्रुत्वा रुद्रवचो मांटिर्हर्षं परं गतः ४०.
दधार गर्भं चटिका तपोमूर्तिधरा यथा ४०.
न पुनर्मातुरुदरंत्यक्त्वा निर्गच्छते बहिः ४०.
वत्स सामान्यपुत्रोऽपि पित्रोः सुखकरः सदा ४०.
वत्स मानुष्यवासस्य स्पृहा तुभ्यं कथं न हि ४०.
कदा मनुष्या जायेम पूजा यत्र महाफला ४०.
इति भूतानि शोचंति नानायोनिगतान्यपि अनादृत्य कथं ब्रूहि स्थितश्चोदर एव च॥ ४०.
तात जानाम्यहं सर्वमेतत्परम दुर्लभम् ४०.
द्वौ मार्गौ किल वेदेषु प्रोक्तौ कालोऽर्चिरेव च ४०.
स्वर्गे वा नरके वापि कालमार्गगतो ह्ययम् ४०.
तस्यैव हेतोः प्रयतेत्कोविदो यन्न दुःखवित् ४०.
तच्चेन्मम मनस्तात नानादोषैर्न मोह्यते ४०.
ततस्तस्य पिता पार्थ कांदिशीको महेश्वरम् ४०.
त्वां विना कोऽपरो देव पुत्रस्याभीष्टदोऽस्ति मे ४०.
ततस्तस्यातिभक्त्यासौ प्राह तुष्टो महेश्वरः ४०.
विपरीतश्च शीघ्रं भो मांटिपुत्रः प्रबोध्यताम् ४०.