चतुःषष्टिसहस्राणि कुरुदेशः प्रकीर्तितः ३९.
पंच प्राहुस्तथा लक्षान्विदर्भायां च ग्रामकान् ३९.
सहस्रदशकं चापि सिंहलद्वीपमुच्यते ३९.
लक्षैकं च तथा प्रोक्तं ग्रामाणां तु भयाणकम् ३९.
षष्टिसहस्राणि तथा ग्रामाणां पांगुदेशकः ३९.
पंचविंशतिसाहस्रं मूलस्थानं प्रकीर्तितम् ३९.
चत्वार्येव सहस्राणि पक्षबाहुरुदीर्यते ३९.
एवं भरतखंडेऽस्मिन्षण्णवत्येव कोटयः ३९.
षट्त्रिंशच्च सहस्राणि वेलाकूलानि भारत ३९.
आत्मीयमपि सा देवी अनिच्छुष्वपि तेषु च ३९.
भ्रातॄन्प्रति भगिनी च विचार्यैव ददौ शुभा ३९.
तदा तेषु च देशेषु चतुर्वर्गस्य साधनम् ३९.
तत्रापि गुप्तक्षेत्रं च वेदैतत्सा कुमारिका ३९.
तस्थौ स्नायंती षट्सु चैवापि संगमे ३९.
जीर्णे नव्यं स्वर्णमयं प्रासादं साप्यकारयत् ३९.
कुमारलिंगादुत्थाय प्रत्यक्षस्तामवोचत ३९.
जीर्णः पुनरुद्धृतोऽयं प्रासादस्तेन तोषितः ३९.
कर्ता चापि तथोद्धर्ता द्वौ वै समफलौ स्मृतौ ३९.
बर्करेशे च ये दत्त वरा दत्ताः सदैव ते ३९.
अभर्तृकाया नार्याश्च न स्वर्गो मोक्ष एव च ३९.
तस्मात्त्वमत्र तीर्थे च महाकालमिति स्मृतम् ३९.
ततः सा रुद्रवाक्येन वरयामास तं पतिम् ३९.
तत्र तां पार्वती प्राह समालिंग्य प्रहर्षिता ३९.
चित्रलेखेतिनाम्ना त्वं तस्माद्भव सखी मम ३९.
ययानिरुद्धः कथित उषायाः पतिरुत्तमः ३९.
अप्सुसा वार्षिकं बिंदुं पूर्णे वर्षशते पपौ ३९.
एवंविधा कुमारी सा लिंगमेतद्धि फाल्गुन ३९.
तस्मादत्र नृणां दाहश्चास्थिक्षेपश्च भारत ३९.
महाकालस्त्वसौ कश्च कथं सिद्धिमुपागतः ४०.
सर्वमेतत्समाख्याहि श्रद्दधानाय पृच्छते॥ ४०.