सार्धलक्षत्रयं प्रोक्तं द्रडस्य विषये तथा ३९.
एकविंशतिसाहस्रं ग्रामणां नीलपूरके ३९.
नरेंदुनामदेशे तु लक्षमेकं सपादकम् ३९.
लक्षाष्टादशसाहस्रं नवती द्वे च मालवे ३९.
मेवाडे च तथा प्रोक्तो लक्षश्चैकःसपादकः ३९.
ग्रामसप्ततिसाहस्रो गुर्जरात्रः प्रकीर्तितः ३९.
जहाहुतिसहस्राणि द्वाचत्वारिंशदेव च ३९.
षष्टित्रिंशत्सहस्राणि ग्रामाणां कौंकणे विदुः ३९.
सिंधुः सहस्रदशके ग्रामाणां परिकीर्तितः॥ ३९.
चतुर्दशशते द्वे च विंशतिः कच्छमंडलम् ३९.
एकविंशतिसहस्रो लाडदेशः प्रकीर्तितः तथा चाश्वमुखं पार्थ दशसाहस्रमुच्यते॥ ३९.
सहस्रदशकं चापि एकपादः प्रकीर्तितः॥ ३९.
तथैव दशसाहस्रो देशः सूर्यमुखः स्मृतः ३९.
सहस्रदशकं चैव संजायुरिति देशकः सहस्राणि दश ख्यातं तथा कालहयंजयः॥ ३९.
लिंगोद्भवस्तथा देशः सहस्राणि दशैव च ३९.
षट्त्रिंशच्च सहस्राणि स्मृतौ चटविराटकौ ३९.
अष्टादश तथा कोट्यो रामको देश उच्यते ३९.
सपादलक्षग्रामाणां प्रत्येकं परिकीर्तितः ३९.
पुलस्त्यविषयश्चापि दशलक्षक उच्यते ३९.
ग्रामाणां च चतुर्लक्षो बाल्हिकः परिकीर्त्यते ३९.
चतुःषष्टिसहस्राणि कुरुदेशः प्रकीर्तितः ३९.
पंच प्राहुस्तथा लक्षान्विदर्भायां च ग्रामकान् ३९.
सहस्रदशकं चापि सिंहलद्वीपमुच्यते ३९.
लक्षैकं च तथा प्रोक्तं ग्रामाणां तु भयाणकम् ३९.
षष्टिसहस्राणि तथा ग्रामाणां पांगुदेशकः ३९.
पंचविंशतिसाहस्रं मूलस्थानं प्रकीर्तितम् ३९.
चत्वार्येव सहस्राणि पक्षबाहुरुदीर्यते ३९.
एवं भरतखंडेऽस्मिन्षण्णवत्येव कोटयः ३९.
षट्त्रिंशच्च सहस्राणि वेलाकूलानि भारत ३९.
आत्मीयमपि सा देवी अनिच्छुष्वपि तेषु च ३९.