शतद्रूचन्द्रभागाद्या ऋक्षपर्वतसंभवाः ३९.
तापी पयोष्णी निर्विध्या कावेरी च महीनदी ३९.
कृतमालाताम्रपर्णीप्रमुखा मलयोद्भवाः ३९.
एवं विभज्य पुत्रेभ्यः कुमार्यै च महीपतिः ३९.
तत्र तप्त्वा तपो घोरं ब्रह्मलोकं जगाम सः ३९.
यत्र जातोऽसि कौतेय पांडोस्त्वं सोदरैः सह ३९.
खंडोद्भवेन द्रव्येण तेपे दानानि यच्छती ३९.
महावीर्यबलोत्साहा जाता नव नवात्मजाः ३९.
कुलदेवी त्वमस्माकं प्रसादं कुरु नः शुभे देही द्वासप्ततीनां नो विभेदः स्याद्यथा न नः॥ ३९.
इत्युक्ता सर्वधर्मज्ञा विज्ञाने ब्रह्मणा समा ३९.
तेषां नामानि ग्रामांश्च पत्तनानि च फाल्गुन ३९.
कोटिश्चतस्रो ग्रामाणां नीवृदासीच्च मंडले ३९.
सपादकोटिर्ग्रामाणां पुरसाहणके विदुः ३९.
एको लक्षश्च नेपाले ग्रामाणां परिकीर्तितः ३९.
द्वासप्ततिस्तथा लक्षा ग्रामा गाजणके स्मृताः ३९.
कामरूपे च ग्रामाणां नवलक्षाः प्रकीर्तिताः ३९.
नवैव लक्षा ग्रामाणां कांतिपुरे प्रकीर्तिताः ३९.
ओड्डियाणे तथा देशे नवलक्षाः प्रकीर्तिताः ३९.
लोहपूरे तथा देशे लक्षाः प्रोक्ता नवैव च ३९.
ग्रामाणां सप्तलक्षं च रटराजे प्रकीर्तितम् ३९.
सार्धलक्षत्रयं प्रोक्तं द्रडस्य विषये तथा ३९.
एकविंशतिसाहस्रं ग्रामणां नीलपूरके ३९.
नरेंदुनामदेशे तु लक्षमेकं सपादकम् ३९.
लक्षाष्टादशसाहस्रं नवती द्वे च मालवे ३९.
मेवाडे च तथा प्रोक्तो लक्षश्चैकःसपादकः ३९.
ग्रामसप्ततिसाहस्रो गुर्जरात्रः प्रकीर्तितः ३९.
जहाहुतिसहस्राणि द्वाचत्वारिंशदेव च ३९.
षष्टित्रिंशत्सहस्राणि ग्रामाणां कौंकणे विदुः ३९.
सिंधुः सहस्रदशके ग्रामाणां परिकीर्तितः॥ ३९.
चतुर्दशशते द्वे च विंशतिः कच्छमंडलम् ३९.