पुलस्त्यपुलहाभ्यां च जज्ञिरे यक्षराक्षसाः
भृगोरग्निः समुदभूच्च्यवनाद्यास्तथर्षयः यत्पुत्रपौत्रैर्भुवनमिदमापूर्यतेऽखिलम्
एवं ब्रह्माऽऽत्मजैः स्वीयैरिदमापूरयज्जगत्
अच्युतोऽपि भृगोः पुत्रीमुद्वाह्य कमलालयाम् 1.3.2.8.
सृष्टिस्थितिभ्यां द्रुहिणाब्जनाभौ स्वाधीनतां नूनमुपागताभ्याम्
विरंच्यप्युतयोरासीद्विवादो मोहसंभवः
रजोविकाराभ्यधिको बाह्ये नील इवोत्थितः
पितामहस्य लोकानां किमेवमतिमोहितः
त्वत्त एवोदितौ दैत्यौ निहत्य मधुकैटभौ
त्वामेव सृजतो नित्यं बहुधा मम वेधसः
मम श्रमांभसोद्भूते महांभोधौ निमज्जतः
मदुपज्ञे महांभोधौ स्रवते कोऽपि पन्नगः
कुतस्तमोमये ब्रूहि त्वयि सत्त्वगुणोदयः
जलाशये प्रस्वपता दैत्यभीत्या जनार्दन
चतुर्भ्यो मम वक्त्रेभ्यो वेदाः समुदयं गताः 1.3.2.9.
मया हि सृज्यते विश्वमिदं स्थावरजंगमम्
ततः कथय वैकुंठ मन्नियोज्येषु कश्चन
नंदिकेश्वर उवाच इत्थं सरोषसंरंभे विधौ पौरुषभाषिणि
नाभीसरोजसंजातो मम त्वमवधारय
योगनिद्रां मयोन्मुच्य पुरा ह मधुकैटभौ
सोमकप्रमुखान्दैत्यान्हंतुमात्मेच्छया मम
न किंचिदपि पश्यंति रजसारूढदृष्टयः
अविनाभाविनी शक्तिर्ननु मे पद्मवासिनी
भूतान्यमूनि कालोऽयमात्मनोप्यहमेव हि
प्र आदित्या वसवो रुद्रा दिक्पाला मनवोऽप्यहम् 1.3.2.9.
ममैव विनियोगेन सृष्टिशक्तिः स्वयं स्थिता
ययावनल्पसमयःसवर्तसदृशस्तयो.
उदयास्तमयौ स्यातां न तदा चंद्रसूर्ययोः
नाववुर्मरुतो वा न जज्वलुर्जातवेदसः
समुद्राश्चुक्षुभुस्सर्वे पर्वताश्च चकंपिरे