पूर्वजन्मोद्भवः कायस्यस्या यत्रापतत्तथा ३९.
अहं तात गमिष्यामि महीसागरसंगमम् ३९.
ततः पित्रा प्रतिज्ञातं शतश्रृंगेण तत्तथा ३९.
स्तंभतीर्थं ततः साऽपि प्राप्य पोतार्यसंयुता ३९.
जालिगुल्मांतरेऽन्विष्य ततो दृष्टं निजं शिरः ३९.
दग्ध्वा संगमसांनिध्ये क्षिप्तान्यस्थीनि संगमे ३९.
न तादृग्देवकन्यानां न तादृङनागयोषिताम् ३९.
सुरासुरनराः सर्वे तस्या रूपेण मोहिताः ३९.
कष्टं तया मुदा तत्र प्रारब्धं दुश्चरं तपः ३९.
प्रत्यक्षतां गतस्तस्यै वरदोऽस्मीति चाब्रवीत् ३९.
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ३९.
एवमस्त्विति शर्वेण प्रोक्ते हृष्टा कुमारिका ३९.
बर्करेशः शिवस्तत्र तया संस्थापितस्तदा ३९.
स्वस्तिकोनाम नागेंद्रः कुमारीं द्रष्टुमागतः ३९.
ईशाने बर्करेशस्य कूपोऽभूत्स्वस्तिकाभिधः ३९.
दृष्ट्वा च स्थापितं लिंगं शिवस्तुष्टो वरं ददौ ३९.
क्षिप्यंतेब्धौ तथा स्थीनि तेषां स्यादक्षया गतिः ३९.
राजानः सर्वसंपूर्णाः सप्रतापा भवंति ते ३९.
स्नात्वार्णवमहीतोये तस्य स्यान्मनसेप्सितम् ३९.
कूपे स्नानं नरः कृत्वा संतर्प्य च पितॄन्निजान् ३९.
एवं लब्ध्वा वरान्सर्वान्सा पुनः सिंहलं ययौ ३९.
तच्छ्रुत्वा विस्मितो राजा लोकाः सर्वे च फाल्गुन ३९.
स्नात्वा दत्त्वा च दानानि विविधानि च ते ततः ३९.
अनिच्छंत्यां कुमार्यां च वरं द्रव्यं च पार्थिवः ३९.
इदं भारतखंडं च नवधैव विभज्य सः ३९.
तेषां विभेदान्वक्ष्यामि पर्वतैरुपशोभितान् ३९.
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ३९.
महेन्द्रपरतश्चैव इन्द्रद्वीपो निगद्यते ३९.
सहस्रमेकमेकं च सर्वखण्डान्यमूनि च ३९.
वेदस्मृतिमुखा नद्यः पारियात्रोद्भवा मताः ३९.