मनुष्याणां च वर्षाणि लक्षासप्तदशैव तु ३९.
लक्षद्वादशसाहस्रषण्नवत्यधिकाः पराः ३९.
चतुर्लक्षं तु द्वात्रिंशत्सहस्राणि कलिः स्मृतः ३९.
आयुर्मनोर्युगानां च साधिका ह्येकसप्ततिः ३९.
युगानां च सहस्रेण स च कल्पः श्रृणुष्व तान् ३९.
सावित्र आसिकश्चापि गांधारः कुशिकस्तथा ३९.
वैराजश्च निषादश्च मेघवाहनपंचमौ ३९.
श्वेतो लोहितरक्तौ च पीतवासाः शिवः प्रभुः ३९.
पूर्वार्धमपरार्धं च ब्रह्ममानमिदं स्मृतम् ३९.
क्वाहमल्पमतिः पार्थ क्वापरौ हरित्र्यंबकौ ३९.
इति ते सूचितं बुद्ध्या श्रृणु तत्प्राकृतं पुनः॥ ३९.
इति वैधात्रव्यवस्थितिः श्रीनारद उवाच कलौ पार्थ भविष्यंति लोकानां मोहनात्मिकाः॥ ३९.
तस्य पुत्रस्तु भरतः शतश्रृंगस्तु तत्सुतः ३९.
इंद्रद्वीपः कसेरुश्च ताम्रद्वीपो गभस्तिमान् ३९.
वदनं चापि कन्यायाः पार्थ बर्करिकाकृति ३९.
महीसागरपर्यंतं वृक्षराजिविराजिते ३९.
अजासमजतो मध्यात्काचिदेका च बर्करी ३९.
इतस्ततो भ्रमंति सा जालिमध्ये समंततः ३९.
विलग्ना जालिमध्ये तु ततः पंचत्वमागता ३९.
पपात शनिदर्शे च महीसागरसंगमे ३९.
शिरस्तु तदवस्थं हि समग्रं तत्र संस्थितम् ३९.
शेषकायप्रपातेन महीसागरसंगमे ३९.
शकश्रृंगस्य वै राज्ञः सिंहलेष्वभवत्सुता ३९.
दिव्यनारी शुभाकारा शेषकाये बभौ शुभा ३९.
पुत्री जाता प्रमोदेन स्वजनानंदवर्धिनी ३९.
विस्मयं समनुप्राप्ताः सर्वे ते राजपूरुषाः ३९.
खिन्नाः प्रकृतयः सर्वास्तादृग्रूपविलोकनात् ३९.
ततः सा यौवनं प्राप्ता साक्षाद्देवसुतोपमा ३९.
तत्तीर्थस्य प्रभावेण मातृपित्रोर्निवेदितम् ३९.
मा शोकं कुरु मे मातः पूर्वजन्मार्जितं फलम् ३९.