नरकाणामधोभागे स्थितः कालाग्निसंज्ञकः ३९.
यस्यैतत्सकलं विश्वं मूर्धाग्रे सर्षपायते ३९.
दिशां गजास्तत्र पद्मकुमुदांजनवामनाः ३९.
चतुर्लक्षसहस्राणि नवतिश्च शतानि च ३९.
तदधो नरकाः कोट्यो द्विकोट्योऽग्निस्ततो महान् ३९.
चत्वारिंश्च्चकोट्यस्तु चतस्रश्च ततः पराः ३९.
तदधोंऽडकटाहोथ कोटिमात्रस्तथापरः ३९.
देवीनां कोटिकोटीभिः संवृता तत्र पालिनी ३९.
कालाग्निं प्रेरयत्येव कल्पांते दह्यते जगत् ३९.
मध्यसूत्रे कटाहे च पालकांस्ताञ्छृणुष्व मे ३९.
तक्षकेशः स्थितः पश्चादुत्तरे केतुमानिति ३९.
कोटिकोटी युता देवी देवीनां पालयत्यदः ३९.
नमामि तानहं नित्यं ब्रह्मविष्णुमहेश्वरान् ३९.
तं च वर्णयितुं ब्रह्मा शक्तो नैवास्मदादयः ३९.
ब्रह्मांडं संवृतं ह्येतत्कटाहेन समंततः ३९.
दशोत्तरेण पयसा वृतं तच्चापि तेजसा ३९.
अहंकारश्च महता तं चापि प्रकृतिः परा ३९.
प्राकृतं चरणं पार्थ तदनंतं प्रकीर्तितम् ३९.
ईदृशानां तथा चात्र कोटिकोटिशतानि च ३९.
यस्यैवं वैभवं पार्थ तं नमामी सदाशिवम् ३९.
य एवंविधसंमोहतारकं न शिवं भजेत् ३९.
काष्ठा निमेषा दश पंच चाहुस्त्रिंशच्च काष्ठा गणयेत्कला हि ३९.
दिवसे पंच कालाः स्युस्त्रिमुहूर्ताः श्रृणुष्व तान् ३९.
सायाह्नः पंचमश्चापि मुहूर्ता दश पंच च ३९.
मासः पक्षद्वयेनोक्तो द्वौ मासौ चार्कजावृतुः ३९.
चतुर्भेदं मासमाहुः पंचभेदं च वत्सरम् ३९.
इद्वत्सरस्तृतीयोऽसौ चतुर्थश्चानुवत्सरः ३९.
मासेन च मनुष्याणामहोरात्रं च पैतृकम् ३९.
मानुषेण च वर्षेण दैविको दिवसः स्मृतः ३९.
वर्षेण चैव देवानां मतः सप्तर्षिवासरः ३९.