गुरूणामवमंता यचो महाज्वाले निपात्यते ३९.
कृमिभक्ष्ये देवद्वेष्टा कृमिशे तु दुरिष्टकृत् ३९.
मिथ्याजीवविरोधी विशसने कूटशस्त्रकृत् ३९.
मार्ज्जारकुक्कुटश्वानपक्षिपोष्टा प्रयाति च ३९.
नक्षत्ररंगजीवी च याति वैतरणीं नरः ३९.
असिपत्रवनं याति वृक्षच्छेदी वृथैव यत् ३९.
परस्त्रीं च परान्नं च गच्छन्संदंशमेति च ३९.
शरीरमदमत्ताश्च यांति चैते श्वभोजनम् ३९.
इत्येवमादिभिः पापैरशास्त्रौघस्य सेवनैः ३९.
तस्माद्य इच्छेदेतेभ्यो विमोक्षं बुद्धिमान्नरः ३९.
नरकाणामधोभागे स्थितः कालाग्निसंज्ञकः ३९.
यस्यैतत्सकलं विश्वं मूर्धाग्रे सर्षपायते ३९.
दिशां गजास्तत्र पद्मकुमुदांजनवामनाः ३९.
चतुर्लक्षसहस्राणि नवतिश्च शतानि च ३९.
तदधो नरकाः कोट्यो द्विकोट्योऽग्निस्ततो महान् ३९.
चत्वारिंश्च्चकोट्यस्तु चतस्रश्च ततः पराः ३९.
तदधोंऽडकटाहोथ कोटिमात्रस्तथापरः ३९.
देवीनां कोटिकोटीभिः संवृता तत्र पालिनी ३९.
कालाग्निं प्रेरयत्येव कल्पांते दह्यते जगत् ३९.
मध्यसूत्रे कटाहे च पालकांस्ताञ्छृणुष्व मे ३९.
तक्षकेशः स्थितः पश्चादुत्तरे केतुमानिति ३९.
कोटिकोटी युता देवी देवीनां पालयत्यदः ३९.
नमामि तानहं नित्यं ब्रह्मविष्णुमहेश्वरान् ३९.
तं च वर्णयितुं ब्रह्मा शक्तो नैवास्मदादयः ३९.
ब्रह्मांडं संवृतं ह्येतत्कटाहेन समंततः ३९.
दशोत्तरेण पयसा वृतं तच्चापि तेजसा ३९.
अहंकारश्च महता तं चापि प्रकृतिः परा ३९.
प्राकृतं चरणं पार्थ तदनंतं प्रकीर्तितम् ३९.
ईदृशानां तथा चात्र कोटिकोटिशतानि च ३९.
यस्यैवं वैभवं पार्थ तं नमामी सदाशिवम् ३९.