सप्तमश्च ध्रुवे बद्धो वायुर्नाम्ना परावहः ३८.
यं समासाद्य वेगेन दिशामंतं प्रपेदिरे ३८.
एवमेते दितेः पुत्राः सप्तसप्त व्यवस्थिताः ३८.
ध्रुवादूर्ध्वमसूर्यं चाप्यनक्षत्रमतारकम् ३८.
इत्यूर्ध्वं ते समाख्यांतं पातालान्यथ मे श्रृणु॥ ३८.
सहस्रसप्तत्युच्छ्राये पातालानि परस्परम् ३९.
तलातलं च सुतलं पातालं चापि सप्तमम् ३९.
भूमयो यत्र कौरव्य वरप्रासादशोभिताः ३९.
स्वर्लोकादपि रम्याणि दृष्टानि बहुशो मया ३९.
दैत्यदानवकन्याभिर्महारूपाभिरन्विते ३९.
यत्र नोष्णं न वा शीतं न वर्षं दुःखमेव च ३९.
पाताले सप्तमे चास्ति लिंगं श्रीहाटकेश्वरम् ३९.
हाटकस्य तु लिंगस्य प्रासादो योजनायुतः ३९.
तच्चार्यंति तल्लिंगं नानानागेन्द्रसत्तमाः ३९.
पापिनो येषु पात्यंते ताञ्छृणुष्व महामते ३९.
रौरवः शूकरो रोधस्तालो विशसनस्तथा ३९.
रुधिरांधो वैतरणी कृमिशः कृमिभोजनः ३९.
तथा पूयवहः पापो वह्निज्वालोऽप्यधःशिराः ३९.
श्वभोजनो विसूचिश्चाप्यवीचिश्च तथाऽपरः ३९.
सुरापः सूकरं याति तालं मिथ्याम नुष्यहा ३९.
गुरूणामवमंता यचो महाज्वाले निपात्यते ३९.
कृमिभक्ष्ये देवद्वेष्टा कृमिशे तु दुरिष्टकृत् ३९.
मिथ्याजीवविरोधी विशसने कूटशस्त्रकृत् ३९.
मार्ज्जारकुक्कुटश्वानपक्षिपोष्टा प्रयाति च ३९.
नक्षत्ररंगजीवी च याति वैतरणीं नरः ३९.
असिपत्रवनं याति वृक्षच्छेदी वृथैव यत् ३९.
परस्त्रीं च परान्नं च गच्छन्संदंशमेति च ३९.
शरीरमदमत्ताश्च यांति चैते श्वभोजनम् ३९.
इत्येवमादिभिः पापैरशास्त्रौघस्य सेवनैः ३९.
तस्माद्य इच्छेदेतेभ्यो विमोक्षं बुद्धिमान्नरः ३९.