सौरिर्बृहस्पतेश्चोर्ध्वं द्विलक्षे समुपस्थितः ३८.
स्वर्भानोस्तुरगाश्चाष्टौ भृंगाभा धूसरारथम् ३८.
सौरेर्लक्षं स्मृतं चोर्ध्वं ततः सप्तर्षिमण्डलम् ३८.
मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ३८.
यमाहुर्वासुदेवस्य रूपमात्मानमव्ययम् ३८.
नवयोजनसाहस्रं मण्डलं सवितुः स्मृतम् ३८.
तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात्प्रसर्पति ३८.
चन्द्रस्य षोडशो भागो भार्गवश्च विधीयते ३८.
बृहस्पतेः पादहीनौ वक्रसौरी बुधस्तथा ३८.
योजनार्धप्रमाणानि भानि ह्रस्वं न विद्यते ३८.
भूमिसूर्यांतरं तच्च भुवर्लोकः प्रकीर्तितः ३८.
स्वर्लोकः सोऽपि गदितो लोकसंस्थानचिंतकैः ३८.
द्वे कोट्यौ च जनो यत्र निवसंति चतुःसनाः ३८.
वैराजा यत्र ते देवाः स्थिता दाहविवर्जिताः ३८.
अपुनर्मरका यत्र ब्रह्मलोको हि स स्मृतः ३८.
शुभं निरुपमं स्थानं तदूर्ध्वं संप्रकाशते ३८.
जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् ३८.
शून्यो भवति कल्पांते योत्यंतं न विनश्यति ३८.
यज्ञैर्दानैर्जपैर्होमैस्तीर्थैर्व्रतसमुच्चयैः ३८.
ततश्चांडस्य शिरसो धारा नीरमयी शिवा ३८.
ततो महीतलं सर्वं पातालं प्रविवेश सा ३८.
देवीनां कोटिकोटीभिः संवृता पिंगलेन च ३८.
निहंति दुष्टसंघातान्महाबलपराक्रमा ३८.
पृथिवीं समभिक्रम्य संस्थितो मेघमंडले ३८.
धूमजाश्वोष्मजा मेघाः सामुद्रैयन पूरिताः ३८.
द्वितीयश्चावहो नाम निबद्धः सूर्यमंडले ३८.
तृतीयश्चोद्वहो नाम चंद्रस्कंधे प्रतिष्ठितः ३८.
चतुर्थः संवहो नाम स्थितो नक्षत्रमण्डले ३८.
ग्रहेषु पंचमः सोऽपि विवहो नाम मारुतः ३८.
षष्ठः परिवहो नाम स्थितः सप्तर्षिमंडले ३८.