जपंतः कामिनीयुक्ता विहरंत्यमरा इव ३७.
भूमेर्योजनलक्षे च कौरव्य रविमंडलम् ३८.
ईषादंडस्ततैवास्य द्विगुणः परिकीर्तितः ३८.
योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ३८.
चत्वारिंशत्सहस्राणि द्वितीयोऽक्षोऽपि विस्तृतः ३८.
अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्द्धयोः ३८.
द्वितीयोऽक्षस्तथा सव्ये चक्रं तन्मानसे स्थितम् ३८.
गायत्री च बृहत्युष्णिग्जगती त्रिष्टुवेव च ३८.
नैवास्तमनमर्कस्य नोदयः सर्वदा सतः ३८.
शक्रदीनां पुरे तिष्ठन्स्पृशत्येष पुरत्रयम् ३८.
अयनस्योत्तरस्यादौ मकरं याति भास्करः ३८.
त्रिष्वेतेष्वथ भुक्तेषु ततो वैषुवतीं गतिम् ३८.
ततो रात्रिः क्षयं याति वर्धते तु दिनं दिनम् ३८.
राशिं कर्कटकं प्राप्य कुरुते दक्षिणायांनम् ३८.
दक्षिणायक्रमे सूर्यस्तथा शीघ्रं निवर्तते ३८.
तस्मात्प्रकृष्टां भूमिं स कालेनाल्पेन गच्छति ३८.
तथोदगयने सूर्यः सर्पते मंदविक्रमः ३८.
संध्याकाले च मंदेहाः सूर्यमिच्छंति खादितुम् ३८.
अक्षयत्वं शरीराणां मरणं च दिनेदिने ३८.
ततो गायत्रिपूतं यद्द्विजास्तोयं क्षिपंति च ३८.
ये संध्यां नाप्युपासंते कृतघ्ना यांति रौरवम् ३८.
अप्सरोग्रामणीसर्पैरथो याति च सप्तभिः ३८.
पूषा च सविता सोऽथ भगस्त्वष्टा च कीर्तितः ३८.
ततो दिवाकरस्थानान्मंडलं शशिनः स्थितम् ३८.
कुंदाभा दश चैवाश्वा वामदक्षिणतो युताः ३८.
नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते ३८.
विंशतिश्च तथा कोट्यो नक्षत्राणां प्रकीर्तिताः ३८.
वाय्वग्निद्रव्यसंभूतो रथश्चंद्रसुतस्य च ३८.
द्विलक्षश्चोत्तरे तस्माद्बुधाच्चाप्युशना स्मृतः ३८.
लक्षद्वयेन भौमस्य स्मृतो देवपुरोहितः ३८.