क्रौंचद्वीपे क्रौंचनामा पर्वतो योजनायतः ३७.
तत्र च प्रैयव्रतो घृतपृष्टिनामा तत्पुत्राममधुरुहमेघपृष्ठस्वदामऋताश्वलोहितार्णववनस्पतिइतिसप्तपुत्रनामांकितानि सप्त वर्षाणि॥ ३७.
वर्णाश्च गुरुऋषभद्रविणदेवकसंज्ञाः॥ ३७.
आपोमयं भगवंतं स्तुवंति॥ ३७.
आपः पुरुषवीर्याश्च पुनंतीर्भूर्भूवःस्वश्च ३७.
शाल्मलेर्नाम वृक्षस्य तत्रवासः सहस्रं योजनानां तच्चिह्नं शाल्मलिद्विपमुच्यते॥ ३७.
तस्याधिपतिः प्रैयव्रतो यज्ञबाहुस्तत्पुत्रसुरोचनसौमनस्यरमणकदेवबर्हिपारिभद्राप्यायनाभिज्ञाननामानि सप्तवर्षाणि॥ ३७.
वर्णाश्च श्रुतधरवीर्यवसुंधरइषंधरसंज्ञा भगवंतं सोमं यजंति॥ ३७.
स्वयोनिः पितृदेवेभ्यो विभजञ्छुक्लकृष्णयोः ३७.
इति जपः गोमेदनामा प्लक्षोस्ति सुरम्यो यस्य च्छायया ३७.
तत्र प्रैयव्रत इध्मजिह्वः पतिस्तत्पुत्रसिवसुरम्यसुभद्र शांत्यशप्तमृताभयनामांकितानि सप्त वर्षाणि॥ ३७.
वर्णाश्च हंसपतंगोर्ध्वांचनसत्यांगसंज्ञाश्चत्वारो भगवंतं सूर्यं यजंते॥ ३७.
प्रश्रस्य विष्णुरूपंयत्तत्रोत्थस्य ब्रह्मणोऽमृतस्य च ३७.
स्वर्णपत्राणि नियुतं योजनानां सहस्रकम् ३७.
तस्याधिपतिः प्रैयव्रतो वीतहोत्रनामा तत्पुत्रौ रमणकघातकौ॥ ३७.
तन्नामचिह्नतं खंडद्वयम्॥ ३७.
तयोरंतरालेमानसाचलो नाम वलयाकारः पर्वतो यस्मिन्भ्रमति भगवान्भास्कर इति॥ ३७.
तत्र वर्णाश्च न संति केवलं समानास्ते ब्रह्म ध्यायंति॥ ३७.
यद्यत्कर्ममयं लिंगं ब्रह्मलिंगं जनोर्चयन् ३७.
नैषु क्रोधो न मात्सर्यं पुण्यपापार्जनेन च ३७.
जपंतः कामिनीयुक्ता विहरंत्यमरा इव ३७.
भूमेर्योजनलक्षे च कौरव्य रविमंडलम् ३८.
ईषादंडस्ततैवास्य द्विगुणः परिकीर्तितः ३८.
योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ३८.
चत्वारिंशत्सहस्राणि द्वितीयोऽक्षोऽपि विस्तृतः ३८.
अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्द्धयोः ३८.
द्वितीयोऽक्षस्तथा सव्ये चक्रं तन्मानसे स्थितम् ३८.
गायत्री च बृहत्युष्णिग्जगती त्रिष्टुवेव च ३८.
नैवास्तमनमर्कस्य नोदयः सर्वदा सतः ३८.
शक्रदीनां पुरे तिष्ठन्स्पृशत्येष पुरत्रयम् ३८.