पूर्वं चैत्ररथं नामदक्षिणे गंधमादनम् ३७.
सरांसि चापि चत्वारि चतुर्दिक्षु निबोध मे ३७.
प्रत्यक्छीतो दकंनाम उत्तरे च महाह्रदः ३७.
योजनानां सहस्राणि सहस्रं पिंडतः स्मृतम् ३७.
मेरोर्दक्षिणतश्चैव त्रयो मर्यादपर्वताः ३७.
लक्षयोजनदीर्घाश्च विस्तीर्णा द्विसहस्रकम् ३७.
माल्यवान्पूर्वतो मेरोर्गंधाख्यः पश्चिमे तथा ३७.
गंधमादनसंस्थाया महागजप्रमाणतः ३७.
आसीत्स्वायंभुवोनाम मनुराद्यः प्रजापतिः प्रियव्रतोत्तानपादौ तस्याऽऽस्तां तनयावुभौ॥ ३७.
ध्रुवश्चोत्तानपादस्य पुत्रः परमधार्मिकः ३७.
प्रियव्रतस्य राजर्षेरुत्पन्ना दश सूनवः ३७.
सप्त सप्तसु द्वीपेषु तेन पुत्राः प्रतिष्ठिताः ३७.
तस्यासन्नव सुताः पार्थ नववर्षेश्वराः स्मृताः ३७.
योजनानां सहस्राणि नव प्रत्येकशः स्मृताः ३७.
अंतरे हेमभूमिष्ठमिलावृतमिहोच्यते ३७.
गंधवत्सागरांतस्य केतुमालमिति स्मृतम्॥ ३७.
श्रृंगवज्जलधेरंतः कुरुखंडमिति स्मृतम् ३७.
सुनीलश्वेतयोर्मध्ये खंडमाहुश्च रम्यकम् ३७.
हिमवद्धिमकूटांतः खण्डं किंपुरुषं स्मृतम् ३७.
नाभिखण्डं च कुरवो द्वे वर्षे धनुपाकृती ३७.
नाभेः पुत्रश्च ऋषभ ऋषभाद्बरतोऽभवत् ३७.
अत्र धर्मार्थकामानां मोक्षस्य च उपार्जनम् ३७.
शाकद्वीपे च शाकोऽस्ति योजनानां सहस्रकः ३७.
तस्य च प्रियव्रत एवाधिपतिर्नाम्ना मेधातिथिरिति॥ ३७.
तस्य पुरोजवमनोजववेपमानधूम्रानीकचित्ररेफबहुरूपविश्वचारसंज्ञानि पुत्रनामानि सप्त वर्षाणि॥ ३७.
शाकद्वीपे च वर्ष ऋतव्रतसत्यव्रतानुव्रतनामानो वाय्यवात्कमं भगवंतं जपंति॥ ३७.
अंतः प्रविश्य भूतानि यो विभज्यात्मकेतुभिः ३७.
कुशद्वीपे कुशस्तंबो योजनानां सहस्रकः ३७.
तद्द्वीपपतिश्च प्रैयव्रतो हिरण्यरोमा तत्पुत्रवसुवसुदानदृढकविनाभिगुप्तसत्यव्रतवामदेवनामांकितानि सप्त वर्षाणि ३७.
परस्य ब्रह्णः साक्षाज्जातवेदासि हव्यवाट् ३७.