शाकद्वीपं द्विगुणतो जंबूद्वीपात्ततः परम् ३७.
सुरातोयेन दैत्यानां मोहकार्यर्णवेन हि ३७.
कुशद्वीपं द्विगुणतस्ततस्तत्परतः स्मृतम् ३७.
ततः परं क्रौञ्चसंज्ञं द्विगुणं हि घृताब्धिना ३७.
इक्षुसारस्वरूपेण समुद्रेण परिवृतम् ३७.
स्वादुतोयेन रम्येण समुद्रेण समंततः ३७.
पंचाशच्च सहस्राणि सप्तद्वीपाः ससागराः ३७.
अपां वृद्धिक्षयो दृष्टः पक्षयोः शुक्लकृष्णयोः ३७.
देवानां क्रीडनस्थानं लोकालोकस्ततः परम् ३७.
अस्य बाह्ये तमो घोरं दुष्प्रेक्ष्यं जीववर्जितम् ३७.
चत्वारिंशत्सहस्राणि योजनानां च फाल्गुन ३७.
कोटियोजनविस्तारः कटाहऋ संव्यवस्थितः ३७.
पंचाशत्कोटयो ज्ञेया दशदिक्षु समंततः ३७.
स लक्षयोजनो ज्ञेयो ह्यधश्चोर्ध्वं प्रमाणतः ३७.
उच्छ्रयश्चतुराशीतिर्द्वात्रिंशन्मूर्ध्नि विस्तृतः ३७.
मध्यशृंगे ब्रह्मवास ऐशान्यां त्र्यंबकस्य च ३७.
रत्नजं शंकरस्यापि राजतं केशवस्य च ३७.
पूर्वेण मंदरो नामदक्षिणे गंधमादनः ३७.
कदंबो मंदरे ज्ञेयोजंबुर्वै गंधमादने ३७.
एकादशशतायामाश्चत्वारो गिरिकेतवः ३७.
पूर्वं चैत्ररथं नामदक्षिणे गंधमादनम् ३७.
सरांसि चापि चत्वारि चतुर्दिक्षु निबोध मे ३७.
प्रत्यक्छीतो दकंनाम उत्तरे च महाह्रदः ३७.
योजनानां सहस्राणि सहस्रं पिंडतः स्मृतम् ३७.
मेरोर्दक्षिणतश्चैव त्रयो मर्यादपर्वताः ३७.
लक्षयोजनदीर्घाश्च विस्तीर्णा द्विसहस्रकम् ३७.
माल्यवान्पूर्वतो मेरोर्गंधाख्यः पश्चिमे तथा ३७.
गंधमादनसंस्थाया महागजप्रमाणतः ३७.
आसीत्स्वायंभुवोनाम मनुराद्यः प्रजापतिः प्रियव्रतोत्तानपादौ तस्याऽऽस्तां तनयावुभौ॥ ३७.
ध्रुवश्चोत्तानपादस्य पुत्रः परमधार्मिकः ३७.