सर्वे देवाः सिद्धिलिंगं यो नरः पूजयिष्यति ३६.
इत्युक्त्वा ते जयं प्राप्ताः स्कंदेन सहिताः सुराः ३६.
चतुर्वर्गफलावाप्तिं दत्त्वा क्षेत्रस्य संययुः ३६.
केचिल्लिंगानि पंचापि युद्धं केचिद्दिवं ययुः ३६.
सप्तमे मारुतस्कंधे व स नित्यं प्रियात्मज ३६.
दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि ३६.
इत्युक्त्वा विससर्जैनं परिष्वज्य महेश्वरः ३६.
विसर्जिताः सुराजग्मुः स्वानिस्वान्यालयानि च ३६.
इत्येतत्कथितं पार्थ लिंगपंचकसंभवम् ३६.
श्रृणुयाच्छ्रावयेद्वापि स भवेत्कीर्तिमान्नरः ३६.
भूतेभ्यो निर्भयश्चापि सर्वदुःखविवर्जितः ३६.
श्रृणुयात्स्कंदचरितं महाधनपतिर्भवेत् ३६.
इदं तत्परमं धन्यं सर्वदोषहरं सदा ३६.
वरमेनं ददुर्देवाः स्कंदस्याथ गता दिवम्॥ ३६.
बर्बरीतीर्थमाहात्म्यमथो वक्ष्यामि तेऽर्जुन ३७.
कुमारिकेति विख्याता तस्या नाम्ना प्रकथ्यते ३७.
यया कृता पृथिव्यां च नानाग्रामादिकल्पना ३७.
महदेतन्ममाश्चर्यं श्रोतव्यं परमं मुने ३७.
कथं विश्वमिदं जातं कर्मजातिप्रकल्पितम् ३७.
अव्यक्तोऽस्मिन्निरालोके प्रधानपुरुषावुभौ ३७.
ततः स्वभावकालाभ्यां स्वरूपाभ्यां समीरितम् ३७.
महत्तत्त्वाद्विकुर्वाणादहंतत्त्वं व्यजायत ३७.
तामसात्पंच जातानि तन्मात्राणि वुदुर्बुधाः ३७.
सात्त्विकाच्चाप्यहंकाराद्विद्वि कर्मेद्रियाणि च ३७.
चतुर्विशतितत्त्वानि जातानीति पुरा विदुः ३७.
बुद्बुदाकारतां जग्मुरंडं जातं ततः शुभम् ३७.
आत्मास्य कथितो ब्रह्मा व्यभजत्स त्रिधा त्विदम् ३७.
नागा दैत्याश्च पाताले त्रिधैतत्परिकल्पितम् ३७.
पातालानि च द्वीपानि स्वर्लोकाः सप्तसप्त च ३७.
लक्षयोजनविस्तारं जंबूद्वीपं प्रकीर्त्यते ३७.