एवमुक्ता सिद्धमाता तथेति प्रत्यपद्यत ३६.
ततः क्षेत्रपतीन्देवाश्चतुःषष्टिं महेश्वरम् ३६.
त्वां च ये पूजयिष्यंति कार्यारभेषु सर्वदा ३६.
तानसौ पालयेत्तुष्टः पिता लोकानिव स्वकान् ३६.
कपर्दितनयं प्रार्थ्य स्थापयाचक्रिरे मुदा ३६.
तेषां सिद्धिं ददात्येष प्रबलो विघ्नराड्भवः ३६.
पश्येद्वा स्मरते वापि सर्वदोषैर्विमुच्यते सिद्धेयक्षेत्राधिपतिश्च सिद्धसरस्तथा सिद्धकूपश्च सप्त॥ ३६.
अत्र तुष्टो ददौ रुद्रः सुराणां दुर्लभान्वरान् ३६.
स्नात्वा पिंडान्वटे कृत्वा पूजयन्मां च सिद्धभाक् ३६.
अष्टाविष्टकरा नित्यं भवेयुस्तस्य सिद्धयः ३६.
एकचित्तः शुचिर्भूत्वा सोऽभूष्टां सिद्धिमाप्नुयात् ३६.
तस्य सिद्धिर्भवत्येव विघ्नैर्यदि न हन्यते ३६.
सिद्धिदा साधकेंद्राणां महाविद्यां जपंति ये ३६.
मंत्रजाप्याद्ददात्येषा सर्वसिद्धीर्यथोप्सिताः ३६.
सिद्धां बिकाप्रसादेन विघ्नक्षेत्रपयोर्मम ३६.
अत्र सिद्धिं प्रयास्यंति कोटिशः पुरुषाः सुराः ३६.
यक्षत्वं चामरत्वं च प्राप्स्यंत्यत्र च साधकाः ३६.
सिद्धांबिकां समाराध्य सिद्धिमाप्स्यति दुर्लभाम् वादप्रचारतो वापि पुण्यावाप्तिर्भविष्यति॥ ३६.
त्र्यंबकेण वरेष्वेवं दत्तेष्वपि सुरोत्तमाः॥ ३६.
प्रहृष्टाः समपद्यंत गाथां चेमां जगुस्तदा ३६.
सर्वे देवाः सिद्धिलिंगं यो नरः पूजयिष्यति ३६.
इत्युक्त्वा ते जयं प्राप्ताः स्कंदेन सहिताः सुराः ३६.
चतुर्वर्गफलावाप्तिं दत्त्वा क्षेत्रस्य संययुः ३६.
केचिल्लिंगानि पंचापि युद्धं केचिद्दिवं ययुः ३६.
सप्तमे मारुतस्कंधे व स नित्यं प्रियात्मज ३६.
दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि ३६.
इत्युक्त्वा विससर्जैनं परिष्वज्य महेश्वरः ३६.
विसर्जिताः सुराजग्मुः स्वानिस्वान्यालयानि च ३६.
इत्येतत्कथितं पार्थ लिंगपंचकसंभवम् ३६.
श्रृणुयाच्छ्रावयेद्वापि स भवेत्कीर्तिमान्नरः ३६.