मासि पौषे च देवस्य कुर्यादाग्नेयमुत्सवम्
वैशाखे च विशाखायां शिवतंत्रानुसारतः 1.3.2.7.
प्राबोधिक मार्गशीर्षे प्रातर्निर्माय सामभिः
शनिप्रदोषेष्वार्द्रासु व्यतीपातेषु पर्वसु
दीक्षोपनयनोद्वाहपुत्रजन्मादिकेष्वपि
अपि स्वजन्मनक्षत्रे संपत्स्वापत्सु भीतिषु
व्रतिचक्रागमे पादबंधने नववैभवे
स्मरेदतिदवीयांश्चेत्पश्येत्पर्यंतगो यदि
किमन्यद्वद वत्सेति उद्धृत्य भुजमुच्यते
स्मरणेन मनःश्रोत्रे श्रवणाद्दर्शनादृशौः
अरुणेस्मिन्महाक्षेत्रे देहिभिर्लब्धजन्मभिः
अन्यत्र मुक्तदेहानामप्यत्र श्राद्धकर्मणा 1.3.2.7.
अयोध्यां मथुरां मायां काशीं कांचीमवंतिकाम्
इत्युक्तवंतं च शिलादपुत्रं मृकण्डुसूनुः पुनरप्युवाच
मार्कंडेय त्वया मन्ये मयि न्यस्तो महान्भरः
स्थाने कुतूहलाक्षिप्तं मनस्तव महामते
कथं वा शक्यते वक्तुं जानानरपि कार्त्स्न्यतः
कथं वा श्रुतमप्येतदाश्चर्यरसभावितैः
इदानीं स्मर चित्रं तु चरित्रं स्मरवैरिणः
अद्भुतं शिवचारित्रमास्कंदितमनोहरम्
तथाप्येष प्रवक्ष्येऽहमंशांशेन यथामति
पुरादिदेवकल्पादौ निर्विकल्पो महेश्वरः
उद्भावितं च तद्विश्वं स्रष्टुं पातुं च सर्वदा
असृजद्दक्षिणांगेन त्र्यंबकः परमेष्ठिनम् 1.3.2.8.
ब्रह्माणं रजसा विष्णुं सत्त्वेन समयूयुजत्
ईशाते सर्वजगतां सृष्टिरक्षाविधानयोः
दक्षं च दक्षिणांगुष्ठात्सृष्ट्यै प्रावर्तयद्विधिः
शूद्रांश्च पद्भ्यां निरमात्स्वयं च कमलासनः
मरुतः फणिनो गृध्रा गंधर्वासरसोऽपि च
नानाज्ञातित्वमापाद्य नानाकर्मप्रवर्तकाः