यास्ये चेति कुलं हन्याद्गमने च कुटुम्बकम् ३४.
त्रिभिर्दिनैस्त्रिभिः पक्षैस्त्रिभिर्मासैस्त्रिभिः समैः ३४.
एते वरामया लिंगे दत्तात्रं स्थापिते त्वया ३४.
कृतकृत्यो वरैर्दत्तैस्त्वया चैतैर्महेश्वर ३४.
एवं प्रणम्य देवं स मातरं प्रणतोऽब्रवीत् ३४.
त्वामप्यत्र स्थापयिष्ये वरदा भव पर्वति॥ ३४.
यत्र शर्वः स्वभावेन तत्र तिष्ठाम्यहं सुत॥ ३४.
तव भक्त्या विशेषेण स्थास्ये स्त्रीणां वरप्रदा ३४.
पश्यंति पुत्रिणां मुख्या प्रीणिता च भृशं त्वया ३४.
सुतो यदा रुद्रभक्तः सानंदं सद्भिरीर्यते ३४.
स्त्रीभिराराधिता दास्ये सौभाग्यं सुपतिं सुतान् ३४.
अर्चयिष्यंति मां याश्च पुष्पैर्धूपैर्विलेपनैः ३४.
पितरौ श्वशुरौ पुत्रान्पतिं सौभाग्यसंपदः ३४.
सप्तमं लवणं प्रोक्तमष्टमं च सुजीरकम् ३४.
सुवर्मेनाथ सौगन्ध्यद्रव्यैः शुभफलैरपि ३४.
माघे वा कार्तिके वापि चैत्रे स्नात्वार्चयेत् माम् ३४.
श्रुत्वेति गिरिजावाचं सानंदः पार्वतीसुतः ३४.
पुष्पैर्धूपैर्मोदकैश्च पूर्वमभ्यर्च्य त्वां प्रभो ३४.
भ्रातस्त्वया स्थापितेऽस्मिँल्लिंगे भक्ताश्च ये नराः ३४.
एवमुक्ते विघ्नराज्ञा प्रतीतेऽस्थापयच्च तम् ३४.
एवं स्थाप्य कुमारेशं लब्ध्वा चैतान्वराञ्छिवात् ३४.
तस्थावंशेन तत्रैव कुमारेश्वरसंनिधौ ३४.
सफला स्वामियात्रा च तेषां भवति भारत ३४.
यत्फलं स्वामियात्रायां तत्फलं समावाप्नुयात् ३४.
निमित्तीकृत्य चात्मानं साध्वर्थे लिंगमर्चितम् ३४.
जप्त्वा शुचिर्ब्रह्मचारी मासं मुच्येत पातकात् ३४.
शतसंख्याबलं राज्यं रुद्रलोक च भेजिरे ३४.
लेभे कुठारमुज्जह्ने येनार्जुनभुजान्युधि ३४.
रामेश्वरमिति ख्यातं स्थापितं लिंगमुत्तमम् ३४.
प्रीतः स्यात्तस्य रामश्च कुमारेशश्च फाल्गुन ३४.