वाराणस्यां यथा वत्स विश्वनाथोऽस्मि संस्थितः॥ ३४.
गुप्तक्षेत्रे तथा स्थास्ये कुमारेश्वरमध्यतः॥ ३४.
श्रुत्वेति वचनं रुद्राद्देवानां श्रृण्वतां गुहः ३४.
नमः शिवायास्तु निरामयाय नमः शिवायास्तु मनोमयाय ३४.
नमो भवायास्तु भवोद्भवाय नमोस्तु ते ध्वस्तमनोभवाय ३४.
नमोस्तु शर्वाय नमः शिवाय नमोस्तु सिद्धाय पुरातनाय ३४.
नमो निसर्गात्मकभूतिकाय नमोऽस्त्वमेयोक्षमहर्द्धिकाय ३४.
नमोऽस्तु नानाभुवनाधिकर्त्रे नमोऽस्तु भक्ताभिमतप्रदात्रे ३४.
अनंतरूपाय सदैव तुभ्यमसह्यकोपाय सदैव तुभ्यम् ३४.
नमः प्रसिद्धाय महौषधाय नमोऽस्तु ते व्याधिगणापहाय ३४.
ममेश भूतेश महेश्वरोसि कामेश वागीश बलेश धीश ३४.
इति संस्तूय वरदं शूलपाणिमुमापतिम् ३४.
एवं भक्तिपराक्रांतमात्मयोग्यं स्तवं शिवः ३४.
त्वया दुःखं न संचिंत्यं मम भक्तवधात्मकम् ३४.
ये च सायं तथा प्रातस्त्वत्कृतेन स्तवेन माम् ३४.
न व्याधिर्न च दारिद्र्यं न चैवेष्टवियोजनम् ३४.
तथान्यानपि दास्यामि वरान्परमदुर्लभान् ३४.
महीसा गरकूले तु ये मां स्तोष्यंति पूजया ३४.
सरस्यत्र च ये स्नानं प्रकरिष्यंति मानवाः ३४.
कुमारेशं तु मां भक्त्या महीसागरसंगमे ३४.
जातिस्मृतिरियं पुत्र यस्यां जातौ प्रजायते ३४.
यस्मिन्काले ह्यनावृष्टिर्जायते कृत्तिकासुत ३४.
एकरात्रं त्रिरात्रं वा पञ्चरात्रं च सप्त वा ३४.
करवीरै रक्तपुष्पैर्जपापुष्पैस्तथैव च ३४.
भोजयेद्ब्रह्णांश्चैव तापसाञ्छंसिवव्रतान् ३४.
भूमिदानं ततः कुर्यात्तत्तो दद्याद्गवाह्निकम् ३४.
अनेनैव विधानेन कृतेन तु द्विजोत्तमैः ३४.
विविधैः पूर्यते धान्यः शाद्वलैश्च वसुन्धरा ३४.
धर्मयुक्तो भवेद्राजा परचक्रैर्न पीड्यते ३४.
कन्यादान फलं तस्य नात्र कार्या विचारणा ३४.