घृतेन हतपापः स्यान्मधुना सुभगो भवेत् ३४.
पानीयदधिदुग्धाद्यैः क्रमाद्दशगुणं फलम् ३४.
कपिलापंचगव्येन सुरसिंधुजलेन वा ३४.
कुशोदकाद्गंधजलं तस्मात्तीर्थोदकं वरम् ३४.
कपिलां दत्त्वा यदाप्नोति तत्फलं कलशे पृथक् ३४.
श्रीखंडागरुकाश्मीरशशिनः क्रमशोऽधिकाः ३४.
प्रशस्तो गुग्लुलो धूपस्तस्माच्चंद्रोऽगरुर्वरः ३४.
दीपदः कीर्तिमाप्नोति चक्षुरुत्तममेव च ३४.
पुष्पेण हेमकर्णस्य प्रबद्धेन द्विसंगुणम् ३४.
अखंडैर्बिल्वपत्रैश्च पुष्पैर्वा विविधैरपि ३४.
यस्तु पुष्पगृहं कुर्यान्नरः शुद्धाशयो भवेत् ३४.
भूषणांबरदानेन नरो भवति भोगभाक् ३४.
रम्यं वितानं यो दद्याच्छत्रुभिर्नाभूयते ३४.
शंखघंटाप्रदानेन विद्वान्भवति शब्दवान् ३४.
नमस्कारं प्रणामं च कृत्वा जायेन्महाकुले ३४.
विमुच्यते मनोमोहैर्भक्त्या स्तुत्वा च मां नरः ३४.
आरार्तिकं भ्रामयित्वा अर्तिहीनः प्रजायते ३४.
नत्वा दत्त्वाथ शक्त्या च दानं लिंगस्य संनिधौ ३४.
प्रणामात्पंचदश च स्नानाद्विंशतिं पूजया ३४.
एतत्सर्वं यथोद्दिष्टं कुमारात्र भविष्यति ३४.
वाराणस्यां यथा वत्स विश्वनाथोऽस्मि संस्थितः॥ ३४.
गुप्तक्षेत्रे तथा स्थास्ये कुमारेश्वरमध्यतः॥ ३४.
श्रुत्वेति वचनं रुद्राद्देवानां श्रृण्वतां गुहः ३४.
नमः शिवायास्तु निरामयाय नमः शिवायास्तु मनोमयाय ३४.
नमो भवायास्तु भवोद्भवाय नमोस्तु ते ध्वस्तमनोभवाय ३४.
नमोस्तु शर्वाय नमः शिवाय नमोस्तु सिद्धाय पुरातनाय ३४.
नमो निसर्गात्मकभूतिकाय नमोऽस्त्वमेयोक्षमहर्द्धिकाय ३४.
नमोऽस्तु नानाभुवनाधिकर्त्रे नमोऽस्तु भक्ताभिमतप्रदात्रे ३४.
अनंतरूपाय सदैव तुभ्यमसह्यकोपाय सदैव तुभ्यम् ३४.
नमः प्रसिद्धाय महौषधाय नमोऽस्तु ते व्याधिगणापहाय ३४.