ततो वैशाखमासस्य चतुर्द्दश्यां शुभे दिने ३४.
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः ३४.
सर्वतीर्थोदकैः स्नाप्य तल्लिंगं भक्तिसंयुतः ३४.
पूजाकाले स्वयं तत्र लिंगमध्येस्थितो हरः ३४.
ततस्तं पूजयन्प्राह स्कंदो भक्तिपरिप्लुतः ३४.
मम यः स्थापयेल्लिंगं शुभं सद्म च कारयेत् ३४.
मम सद्म सुधाशुभ्रं यावत्संख्यं करोति यः ३४.
ध्वजभूतो ध्वजं दत्त्वा विपापः स्यात्पताकया ३४.
रजःसंशोधनं कृत्वा नरो रोगैः प्रमुच्यते ३४.
पुष्पक्षीरादि भिर्दत्तैस्तिलाभोऽक्षतदर्भकैः ३४.
घृतेन हतपापः स्यान्मधुना सुभगो भवेत् ३४.
पानीयदधिदुग्धाद्यैः क्रमाद्दशगुणं फलम् ३४.
कपिलापंचगव्येन सुरसिंधुजलेन वा ३४.
कुशोदकाद्गंधजलं तस्मात्तीर्थोदकं वरम् ३४.
कपिलां दत्त्वा यदाप्नोति तत्फलं कलशे पृथक् ३४.
श्रीखंडागरुकाश्मीरशशिनः क्रमशोऽधिकाः ३४.
प्रशस्तो गुग्लुलो धूपस्तस्माच्चंद्रोऽगरुर्वरः ३४.
दीपदः कीर्तिमाप्नोति चक्षुरुत्तममेव च ३४.
पुष्पेण हेमकर्णस्य प्रबद्धेन द्विसंगुणम् ३४.
अखंडैर्बिल्वपत्रैश्च पुष्पैर्वा विविधैरपि ३४.
यस्तु पुष्पगृहं कुर्यान्नरः शुद्धाशयो भवेत् ३४.
भूषणांबरदानेन नरो भवति भोगभाक् ३४.
रम्यं वितानं यो दद्याच्छत्रुभिर्नाभूयते ३४.
शंखघंटाप्रदानेन विद्वान्भवति शब्दवान् ३४.
नमस्कारं प्रणामं च कृत्वा जायेन्महाकुले ३४.
विमुच्यते मनोमोहैर्भक्त्या स्तुत्वा च मां नरः ३४.
आरार्तिकं भ्रामयित्वा अर्तिहीनः प्रजायते ३४.
नत्वा दत्त्वाथ शक्त्या च दानं लिंगस्य संनिधौ ३४.
प्रणामात्पंचदश च स्नानाद्विंशतिं पूजया ३४.
एतत्सर्वं यथोद्दिष्टं कुमारात्र भविष्यति ३४.