तेजोवधसमुद्भूतपातकेन स मुच्यते॥ ३३.
अस्यामेव तिथौ सोमः शिवयोगश्च तैतिलम् स्नात्वात्र सशरीरो वै रुद्रलोकं व्रजीष्यति॥ ३३.
कपालेशस्य सांनिध्ये शक्तिच्छिद्रं हि कीर्त्यते ३३.
इति श्रुत्वा रुद्रवाक्यं स्कंदः प्रीतोऽभवद्भृशम् ३३.
ततस्तृतीयलिंगस्य चिकीर्षु स्थापनं गुहम् ३४.
यद्यप्येतच्छुभं लिंगं सर्वदोषविवर्जितम् ३४.
ततो ब्रह्मा सर्वदोषविमुक्तं निर्ममे स्वयम् ३४.
तत्र स्कंदस्य प्रीत्यर्थं सर्वदेवैर्निनिर्मितम् ३४.
गंगादिकानि तीर्थानि यानि प्रोचुर्दिवौकसः ३४.
एवमस्त्विति तान्यूचुः प्रीत्यर्थं शरजन्मनः गाधिपुत्रादिभिर्विप्रैस्तर्पयामास संयुतः॥ ३४.
ततो वैशाखमासस्य चतुर्द्दश्यां शुभे दिने ३४.
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः ३४.
सर्वतीर्थोदकैः स्नाप्य तल्लिंगं भक्तिसंयुतः ३४.
पूजाकाले स्वयं तत्र लिंगमध्येस्थितो हरः ३४.
ततस्तं पूजयन्प्राह स्कंदो भक्तिपरिप्लुतः ३४.
मम यः स्थापयेल्लिंगं शुभं सद्म च कारयेत् ३४.
मम सद्म सुधाशुभ्रं यावत्संख्यं करोति यः ३४.
ध्वजभूतो ध्वजं दत्त्वा विपापः स्यात्पताकया ३४.
रजःसंशोधनं कृत्वा नरो रोगैः प्रमुच्यते ३४.
पुष्पक्षीरादि भिर्दत्तैस्तिलाभोऽक्षतदर्भकैः ३४.
घृतेन हतपापः स्यान्मधुना सुभगो भवेत् ३४.
पानीयदधिदुग्धाद्यैः क्रमाद्दशगुणं फलम् ३४.
कपिलापंचगव्येन सुरसिंधुजलेन वा ३४.
कुशोदकाद्गंधजलं तस्मात्तीर्थोदकं वरम् ३४.
कपिलां दत्त्वा यदाप्नोति तत्फलं कलशे पृथक् ३४.
श्रीखंडागरुकाश्मीरशशिनः क्रमशोऽधिकाः ३४.
प्रशस्तो गुग्लुलो धूपस्तस्माच्चंद्रोऽगरुर्वरः ३४.
दीपदः कीर्तिमाप्नोति चक्षुरुत्तममेव च ३४.
पुष्पेण हेमकर्णस्य प्रबद्धेन द्विसंगुणम् ३४.
अखंडैर्बिल्वपत्रैश्च पुष्पैर्वा विविधैरपि ३४.