लिंगस्य क्रियते यच्च तत्सर्वं विश्वप्रीतिदम् ३३.
स सर्वपापनिर्मुक्तो रुद्रलोके प्रमोदते ३३.
तच्च स्थापयतो लिंगं शिवस्य शुभलक्षणम् ३३.
तथैव सर्वजगतां मुखं लिंगं न संशयः ३३.
अतीतं च तथागामि कुलानां तारयेच्छतम् ३३.
कृतमायतनं दद्यात्क्रमाच्छतगुणं फलम् ३३.
आकल्पांतं रुद्रलोके मोदते रुद्रवत्सुखी ३३.
तस्मादत्र महासेन लिंगं स्थापितुमर्हसि ३३.
तद्ब्रवीतु महा सेन स्वयं साक्षी महेश्वरः ३३.
महादेवो ह्यथालिंग्य स्कन्दं वचनब्रवीत् ३३.
तेनापि परमा प्रीतिर्मम जाता तवोपरि ३३.
तत्त्था नान्यथा किंचिदत्र प्रोक्तं हि विष्णुना ३३.
नावयोरंतरं किंचिद्दीपयोरिव सुव्रत ३३.
इति स्कन्द विजानाति स मद्भक्तोन्यथा न हि॥ ३३.
एवमेवास्मि जानामि त्वां च विष्णुं च शंकर॥ ३३.
यच्च लिंगकृते प्राह हरिर्मां धर्मवत्सलः ३३.
लिंगं संस्थापयिष्यामि सर्वपापा पहं ततः ३३.
द्वितीयं यत्र निःसत्त्वसत्यक्तः शक्त्याऽसुरोऽभवत् ३३.
इत्युक्त्वा विश्वकर्माणमाहूय प्राह पावकिः ३३.
वचनाद्बाहुलेयस्य निर्ममे देववर्द्धकिः ३३.
ततो ब्रह्मादिभिः सार्धं विष्णुना शंकरेण च ३३.
प्रतिज्ञेश्वरमित्येव लिंगं परमशोभनम् ३३.
पूजां च जागरं कृत्वा मुच्येत्पारुष्यपापतः ३३.
ततो द्वितीयं लिंगं तु वह्निकोणाश्रितं तथा ३३.
कपालेश्वरमित्येव लिंगं पापापहं शुभम् ३३.
कपालेश्वरसांनिध्यं देवीं कापालिकेश्वरीम् ३३.
पातालगंगा यत्रास्तिं सर्वपापहरा शिवा ३३.
तदा तोयं तारकाय सहितः सर्वदैवतैः॥ ३३.
काश्यपेयाय वज्रांगतनयाय महात्मने ३३.
ततो महेश्वरः प्रीतः प्राह स्कंदस्य श्रृण्वतः स्नात्वोपोष्य समभ्यर्च्य कपालेश्वरमीश्वरीम्॥ ३३.