यज्ञादिकाश्च ये धर्मा विना यस्यार्चनं वृथा ३३.
क्षोणी रथो विधिर्यंता शरोऽहं मन्दरो धनुः ३३.
आराधनं तस्य केचिद्योगमार्गेण कुर्वते ३३.
तस्मात्तस्यार्चयेल्लिंगं भुक्तिमुक्ती य इच्छति ३३.
अभूद्यस्य परिच्छेदे नालमावां बभूविव ३३.
तस्माल्लिंगमिति प्रोक्तं देवै रुद्रस्य धीमतः ३३.
ब्रह्मादितृणपर्यंतं तेनेदं तर्पितं जगत् ३३.
तर्पितं तेन विश्वं स्यात्सुधया पितृभिः समम् ३३.
तेन संपूजितं विश्वं सकलं नात्र संशयः ३३.
भोजितं तेन विश्वं स्याल्लिंगस्यैवं फलं महत् ३३.
लिंगस्य क्रियते यच्च तत्सर्वं विश्वप्रीतिदम् ३३.
स सर्वपापनिर्मुक्तो रुद्रलोके प्रमोदते ३३.
तच्च स्थापयतो लिंगं शिवस्य शुभलक्षणम् ३३.
तथैव सर्वजगतां मुखं लिंगं न संशयः ३३.
अतीतं च तथागामि कुलानां तारयेच्छतम् ३३.
कृतमायतनं दद्यात्क्रमाच्छतगुणं फलम् ३३.
आकल्पांतं रुद्रलोके मोदते रुद्रवत्सुखी ३३.
तस्मादत्र महासेन लिंगं स्थापितुमर्हसि ३३.
तद्ब्रवीतु महा सेन स्वयं साक्षी महेश्वरः ३३.
महादेवो ह्यथालिंग्य स्कन्दं वचनब्रवीत् ३३.
तेनापि परमा प्रीतिर्मम जाता तवोपरि ३३.
तत्त्था नान्यथा किंचिदत्र प्रोक्तं हि विष्णुना ३३.
नावयोरंतरं किंचिद्दीपयोरिव सुव्रत ३३.
इति स्कन्द विजानाति स मद्भक्तोन्यथा न हि॥ ३३.
एवमेवास्मि जानामि त्वां च विष्णुं च शंकर॥ ३३.
यच्च लिंगकृते प्राह हरिर्मां धर्मवत्सलः ३३.
लिंगं संस्थापयिष्यामि सर्वपापा पहं ततः ३३.
द्वितीयं यत्र निःसत्त्वसत्यक्तः शक्त्याऽसुरोऽभवत् ३३.
इत्युक्त्वा विश्वकर्माणमाहूय प्राह पावकिः ३३.
वचनाद्बाहुलेयस्य निर्ममे देववर्द्धकिः ३३.