तस्यां ततो निर्गतायां दैत्यशीर्षं व्यकम्पयत् ३२.
एतस्मिन्नंतरे शक्तिं सोऽक्षिपद्गिरिजात्मजः ३२.
कल्पांभोधिसमुन्नादां दिधक्षंतीं जगद्यथा ३२.
दारणीं पर्वतानां च सर्वसत्त्वबलाधिकाम् ३२.
धर्मश्चेद्बलवाँल्लोके धर्मो जयति चेत्सदा ३२.
सा कुमारभुजोत्सृष्टा दुर्निवार्या दुरासदा ३२.
निःसृत्य जलकल्लोलपूर्विका स्कंदमाययौ नादयन्वसुधां सर्वां पपातायोमुखो मृतः॥ ३२.
एवं प्रताप्य त्रैलोक्यं निर्जित्य बहुशः सुरान् ३२.
एतस्मिन्निहते दैत्ये प्रहर्षं विश्वमाययौ॥ ३२.
ववुर्वातास्तथा पुण्याः सुप्रभोभूद्दिवाकरः ३२.
ततः पुनः स्कंदमाह प्रहृष्टः केशवोऽरिहा ३२.
क्रौंचपर्वतमादाय देवसंघान्प्रबाधते जहि तं पापसंकल्पं क्रौंचस्थं शक्तिवेगतः॥ ३२.
ततः क्रौंचं महातेजा नानाव्यालविनादितम् ३२.
तत्र व्यालसहस्राणि दैत्यकोट्ययुतं तथा ३२.
अद्यापि छिद्रं तत्पार्थ क्रौंचस्य परिवर्तते॥ ३२.
येन हंसाश्च क्रौंचाश्च मानसाय प्रयांति च प्रत्यायाति मनः साधोराहृतं प्रहितं तथा॥ ३२.
ततो हरींद्रप्रमुखाः प्रतुष्टुवुर्ननृतुश्च रंभाप्रमुखा वरांगनाः ३२.
ततस्तं गिरिवर्ष्माणं पतितं वसुधोपरि ३३.
दृष्ट्वा देवा विस्मितास्ते जयं जगुस्तथा मुहुः ३३.
उत्थाय तारको दैत्यः कदा चिन्नो निहंति चेत् ३३.
आसीद्दीनमनाः पार्थ शुशोच च महामतिः ३३.
शोच्यं पातकिनं मां च संस्तुवध्वं कथं सुराः ३३.
स तु रुद्रांशजः प्रोक्तस्तस्य द्रुह्यन्न रुद्रँवत् ३३.
वीरं हि पुरुषं हत्वा गोसहस्रेण मुच्यते ३३.
पापशीलस्य हनने दोषो यद्यपि नास्ति च ३३.
तदहं श्रोतुमिच्छामि प्रायाश्चित्तं च किंचन ३३.
इति संशोचतस्तस्य शिवपुत्रस्य धीमतः ३३.
श्रुतिः स्मृतिश्चेतिहासाः पुराणं च शिवात्मज ३३.
स्वप्राणान्यः परप्राणैः प्रपुष्णात्यघृणः पुमान् ३३.
अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्या पचारिणी ३३.