धावतश्चापि कल्पांतं रुद्रकल्पस्य तस्य याः ३२.
ततोंऽतरिक्षे वाचश्च प्रोचुः सिद्धाः स्वयं तदा ३२.
अनादृत्येव तद्वाक्यं ब्रुवन्नान्यत्करोम्यहम् ३२.
उवाच वाचं साधूंश्च यत्नात्पालयतां फलम् ३२.
अथापश्यन्महासेनो रुद्रं यांतं च तारकम् ३२.
जगच्च क्षुब्धमत्यर्थं स्वां प्रतिज्ञां पुरा कृताम् ३२.
आकाशवाणीं श्रृण्वंश्च किं स्कन्द त्वं विषीदसी ३२.
स्थापयेर्लिगमीशस्य मोक्षो हत्याशतैरपि ३२.
अथोत्प्लुत्य मयूरात्स प्रहसन्निव केशवम् ३२.
जानामि त्वामहं विष्णो महाबुद्धिपराक्रमम् ३२.
त्वमेव हंता दैत्यानां देवानां परिपालकः ३२.
क्षणार्धं पश्य मे वीर्यं भास्करो लोहितायते ३२.
विरोषोऽभूत्तमालिंग्य वचनं केशवोऽब्रवीत् ३२.
स्मरात्मानं यदर्थं त्वमुत्पन्नोऽसि महेश्वरात् सुरविप्रकृते जन्म जीवितं च महात्मनाम्॥ ३२.
रुद्रस्य देव्या गंगायाः कृत्तिकानां च तेजसा साधूनां च कृते यस्य धनं वीर्यं च संपदः॥ ३२.
सफलं तस्य तत्सर्वं नान्यथा रुद्रनंदन॥ ३२.
अद्य धर्मश्च देवाश्च गावः साध्याश्च ब्राह्मणाः ३२.
या गतिः शिवत्यागेन त्वत्त्यागेन च केशव ३२.
या गतिः श्रुतित्यागेन साध्वी भार्यातिपीडनात् निष्ठुरस्य गतिर्या च तां गतिं यामि केशव॥ ३२.
इत्युक्ते सुमहान्नादः संप्रजज्ञे दिवौकसाम् ३२.
ततस्तार्क्षअयं समारुद्य हरिस्तस्मिन्महारणे ३२.
लोहितांबरसंवीतो लोहितस्रग्विभूषणः ३२.
भुजेन तोलयञ्छक्तिं सर्वभूतानि कम्पयन् ३२.
तिष्ठतिष्ठ सुदुर्बुद्धे जीवितं ते मयि स्थितम् ३२.
यत्ते सुनिष्ठुरत्वं च धर्मे देवेषु गोषु च ३२.
एवमुक्ते गुहेनाथ निवृत्तस्यास्य भारत ३२.
तेजसा भासयंती तमध ऊर्ध्वं दिशो दश ३२.
अहं शक्तिर्गुहाख्याता भूतलेषु सदा स्थिता ३२.
सुरेषु सर्वेषु वसामि चाहं विप्रेषु शास्त्रार्थरतेषु चाहम् ३२.
तदस्य पुण्यसंघस्य संप्राप्तोद्यावधिर्गुह ३२.