दंडं यमादुपादाय मूर्ध्न्याहत्य न्यपातयत् ३२.
वरुणात्पाशमादाय तेन बद्धा न्यपातयत् ३२.
फूल्कारैरुद्धतं वह्निं शमयामास तारकः ३२.
शूलैरेव तथा रुद्राः साध्याश्च धनुषार्दिताः ३२.
रेणुनाच्छाद्य चंद्रार्कौ वल्मीकस्थाविवेक्षितौ ३२.
सविषाश्च कृता नागा निर्विषाः पादकुट्टनैः ३२.
एवं तद्देवसैन्यं च हाहाभूतमचेतनम् ३२.
ततश्चांतर्दधे सद्यः प्रहसन्निव केशवः ३२.
अपश्यंस्तारको विष्णुं पुनर्वृषभवा हनम् ३२.
अचिरांशुरिवालक्ष्यो लक्ष्योथ भगवान्हरिः ३२.
पलायध्वमहो देवाः शक्तिश्चेद्वः पलायितुम् ३२.
किं न श्रुतः पुरा गीतः श्लोकः स्वायंभुवेन यः अपस्मारीषु चैवापि सर्वे ते संशयं गताः॥ ३२.
प्रत्यक्षं तदिदं सर्वमाधुना चात्र दृस्यते॥ ३२.
अज्ञासिष्म पुरैवैतद्रुद्रभक्तं न हंत्यसौ ३२.
अथैष यदि दैत्येंद्रं न निहंति कुबुद्धिमान् ३२.
अद्य मे विपुलं बाह्वोर्बलं पश्यत दैत्याधमं नाशयामि मुष्टिनैकेन पश्यत॥ ३२.
मया हि दक्षिणो बाहुर्दत्तश्च भवतां सदा ३२.
येंऽबरे ये च पाताले भुवि ये च महासुराः ३२.
एवमुक्ता जगन्नाथो मुष्टिमुद्यम्य दक्षिणम् ३२.
तस्मिन्धावति गोविंदे चचाल भुवनत्रयम् ३२.
धावतश्चापि कल्पांतं रुद्रकल्पस्य तस्य याः ३२.
ततोंऽतरिक्षे वाचश्च प्रोचुः सिद्धाः स्वयं तदा ३२.
अनादृत्येव तद्वाक्यं ब्रुवन्नान्यत्करोम्यहम् ३२.
उवाच वाचं साधूंश्च यत्नात्पालयतां फलम् ३२.
अथापश्यन्महासेनो रुद्रं यांतं च तारकम् ३२.
जगच्च क्षुब्धमत्यर्थं स्वां प्रतिज्ञां पुरा कृताम् ३२.
आकाशवाणीं श्रृण्वंश्च किं स्कन्द त्वं विषीदसी ३२.
स्थापयेर्लिगमीशस्य मोक्षो हत्याशतैरपि ३२.
अथोत्प्लुत्य मयूरात्स प्रहसन्निव केशवम् ३२.
जानामि त्वामहं विष्णो महाबुद्धिपराक्रमम् ३२.