चतुर्थ्यामरुणेशाय पूर्णकुम्भोत्करादिकम्
मुद्गौदनं च पंचम्यामुपहारं प्रकल्पयेत 1.3.2.7.
षष्ठ्यां गुडौदनं दद्यादरुणाचलशम्भवे
तिलौदनं यस्सप्तम्यां शोणेशाय समर्पयेत्
अष्टम्यां राजशाल्यन्नं यो दद्याच्छोणशम्भवे
गोधूमान्नं नवम्यां च शोणाद्रीशाय योऽर्पयेत्
दशम्यां शोणनाथाय यः करंभं निवेदयेत्
पृथुकैरुपहारान्य एकादश्यां प्रकल्पयेत्
द्वादश्यां शोणनाथाय सूपौदननिवेदनम्
यः सक्तूनरुणेशाय त्रयोदश्यां समर्पयेत्
अर्पयेच्छोणनाथाय फलानि विविधानि यः
यः पौर्णमास्यां शोणाद्रिनाथाय विनिवेदयेत् 1.3.2.7.
कुह्वां च संगमे भक्त्या कंदमूलादि योऽर्पयेत्
अश्विन्यामरुणेशाय दद्याद्वासांसि भक्तिमान्
कृत्तिकासु प्रदीपांश्च रोहिण्यां रौप्यमर्पयेत्
पुनर्वसौ मृगमदं पुष्ये कर्पूरमर्पयेत्
तांबूलं पूर्वफाल्गुन्यां धूपमुत्तरफाल्गुने
स्वात्यां सुवासिनीवृंदं विशाखायां प्रकीर्णकम्
मूले मुक्तासरान्पूर्वाषाढे मुकुटमर्पयेत्
अष्टापदं धनिष्ठायां वासः शतभिषज्यपि
रेवत्यां च रथं हैमं प्रदद्याच्छोणशंभवे
पूज्यो राशिषु मेषादिष्वरुणेथो विशेषतः 1.3.2.7.
कुटजैर्नीपकुसुमैर्जीवंतीमल्लिकादिभिः
पंचामृतेन स्नपयन्नुभयोरुपरागयोः
स्नपनं पञ्चगव्येन द्वयोरयनयोरपि
प्रणवेनैव कुर्वीत क्षीरेण स्नपनक्रियाम्
प्राह्णे स्याद्रुद्रतुलसी मध्याह्ने कृतमालकम्
अद्धोदये च स्नपयेत्सहस्रकलशोदकैः
शिवरात्रौ विशेषेण त्रिशिखैर्बिल्वपत्रकैः
गीतवादित्रनृत्यैश्च दिव्यागमविधानतः