केचिन्मयूरपक्षाभ्यां चरणाभ्यां च सूदिताः ३२.
पार्षदैर्मातृभिः सार्धं पद्मशो निहताः परे ३२.
अभाग्यैरिव लोकेषु तारकः स्कंदमाययौ ३२.
तया मयूरमाजघ्ने मयूरो विमुखोऽभवत् ३२.
देवसेनापते शीघ्रं शक्तिं मुंच महासुरे ३२.
त्वयैव रुद्रभक्तोऽयं जनार्दन ममेरितम् ३२.
नारुद्रः पूजयेद्रुद्रं भक्तरूपस्य यो हरः ३२.
तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ताः प्रपीडिताः ३२.
एष चेद्धंति तद्भद्रं हन्यतामेष मां रणे ३२.
नैतत्तवोचितं स्कंद रुद्रभक्तो यथा श्रृणु ३२.
एका जीवात्मिका तत्र प्रत्यक्षा च तथापरा ३२.
भक्तो रुद्रो कृपावांश्च जंतुष्वेव हरव्रतः ३२.
जहि नैवात्र पश्यामि दोषं कंचन ते प्रभो ३२.
हंतुं न कुरुते बुद्धिं रुद्रभक्त इति स्मरन् ३२.
प्राह चैवं सुदुर्बुद्धे हन्मि त्वां पश्य मे बलम् हत्वा त्वामद्य सर्वांस्तांश्छेत्स्ये पश्याद्य मे बलम्॥ ३२.
दैत्येंद्र तव चास्माभिः किमहो श्रृणु सत्यताम्॥ ३२.
रथे य एष शर्वोऽयं हतेऽस्मिन्सकलं हतम् ३२.
अभिसृत्य स जग्राह रुद्रस्य रथकूबरम् ३२.
रेसतू रोदसी तूर्णं मुमुहुश्च महर्षयः ३२.
आसीच्च निश्चितं तेषां जितमस्माभिरित्युत ३२.
उमया सह संत्यक्त्वा रथं वृषभमावहत् ३२.
ततस्तं शतसिंहं च रथं रुद्रेण निर्मितम् ३२.
शूलपाशुपतादीनि सहसोपस्थितानि च ३२.
ततः स्ववंचितं ज्ञात्वा रुद्रेणात्मानमीर्ष्यया ३२.
ततो जनार्दनोऽधावच्चक्रमुद्यम्य वेगतः ३२.
गदां धनेश्वरः क्रुद्धः पाशं च वरुणो नदन् वायुर्महांकुशं घोरं शक्तिं वह्निर्महाप्रभाम्॥ ३२.
निर्ऋतिर्निशितं खड्गं रुद्राः शूलानि कोपिताः ३२.
विश्वेदेवाश्च मुसलं चंद्रार्कौ स्वप्रभामपि ३२.
हिमाद्रि प्रमुखाश्चापि समुद्यम्य महीधरान् ३२.
निवृत्तः सहसा पार्थ महागज इवोन्नदन् ३२.