क्रोध रक्तेक्षणो राजा देवसैन्यं समाविशत् ३२.
कुमार पश्य दैत्येंद्रं कालं यद्वद्युगात्यये ३२.
अयं स येन शक्राद्याः कृता मर्काः समार्बुदम् ३२.
नावज्ञया प्रद्रष्टव्यस्तारकोऽयं महासुरः ३२.
अर्वागस्तमनादेनं जहि वध्योऽन्यथा नहि ३२.
आयासयत दैत्येंद्रं सुखवध्यो यथा भवेत् ३२.
तमासाद्य शरव्रातैर्मुदिताः समवाकिरन् ३२.
यथा नास्तिकदुर्वृत्तो नानाशास्त्रोपदेशकान् ३२.
महापस्मारसंक्रांतं यथैवाप्रियवादिनम् ३२.
आजगाम कुमाराय विधुवन्स महाधनुः ३२.
तस्यारक्षद्भवः पार्श्वं दक्षिणं चैव तं हरिः ३२.
ततस्तौ सुमहायुद्धे संसक्तौ देवदैत्ययौः ३२.
ततः कुमारमासाद्य लीलया तारकोऽब्रवीत् ३२.
आसादयसि मां युद्धे पतंग इव पावकम् ३२.
पिष क्षीरं गृहाणेमं कंदुकं क्रीड लीलया ३२.
शिशुत्वं मावमंस्था मे शिशुः कष्टो भुजंगमः ३२.
अल्पाक्षरो न मंत्रः किं सस्फुरो दैत्य दृश्यते ३२.
तस्मिञ्छक्त्यस्त्रमादाय दैत्याय प्रमुमोच ह ३२.
चतुर्योजनमात्रो यो नानाश्चर्यसमन्वितः ३२.
मुक्ताः कथंचिदुत्पत्य सागरांतरमाविशन् ३२.
विंध्याद्रिमिव तं स्कंदो गृहीत्वा तं व्यताडयत् ३२.
मेने च दुर्जयं दैत्यस्तदा षड्वदनं रणे ३२.
तं भीतमिव चालक्ष्य दैत्यवीराश्च कोटिशः ३२.
क्रुद्धस्तेषु ततः स्कंदः शक्तिं घोरामथाददे ३२.
उल्काजालं महाघोरं पपात वसुधातले ३२.
ततः कोट्यो विनिष्पेतुः शक्तीनां भर्तर्षभ ३२.
अष्टौ पद्मानि दैत्वानां दशकोटिशतानि च ३२.
ह्रंदोदरं च दैत्येंद्रं निखर्वैर्दशभिर्वृतम् ३२.
कुमारानुचराः पार्थ पूरयंतो दिशो दश ३२.
पताकयावधूताश्च हताः केचित्सहस्रशः ३२.