उत्सृज्य सहसा पार्थ ऐरावणशिरःस्थितः ३२.
शक्रं च चघ्ने विनदन्पेततुस्तावुभौ भुवि ३२.
रथमाश्रित्य भूयोपि तारकाभिमुखो ययौ ३२.
ह्रियते ह्रियते राजा त्राता कोऽपि न विद्यते ३२.
बाणैः ससैन्यं कृत्वा च जंभकं गृध्रमोदनम् ३२.
किमेतेन महेन्द्रेण मया युध्यस्व दानव ३२.
नग्नेन सह को युध्येद्धतेनापि च येन वा ३२.
आत्मनस्तु समं किंचिद्विलोक्य सुदुर्मते ३२.
ततः कुमारः सहसा मयूरस्थोऽभ्यधावत ३२.
ततो हरिः स्कंदमाह किमेतेन तव प्रभो ३२.
एवमुक्त्वा निवार्यैनं केशवो गरुडस्थितः ३२.
स तैर्बाणैस्ताड्यमानो वज्रैरिव महासुरः ३२.
यान्यान्बाणान्हरिर्दिव्यानस्त्राणि च मुमोच ह ३२.
ततः कौमोदकीं गृह्य क्षिप्रकारी जनार्दनः ३२.
ततो रथादवप्लुत्य विवृत्य वदनं महत् ३२.
ततोऽभूत्सर्वदेवानां विमोहो जगतामपि ३२.
कालनेमिर्नश्चैव प्रानृत्यत महारणे ३२.
कुक्षिं विदार्य चक्रेण भास्करोऽभादिवोदितः ३२.
पातालस्य तलं निन्ये तत्र शिश्ये स काष्ठवत् ३२.
प्रमोदितास्तथा देवा विमोहास्तत्क्षणाद्बभुः ३२.
त्वया यद्विहितं कर्म तत्कर्तान्यो न विद्यते ३२.
तेषामतिबलो ह्येष त्वया विष्णो विनिर्जितः ३२.
कंसरूपः पुनस्तेऽयं हंतव्योऽष्टमजन्मनि ३२.
शस्त्रजालैर्लब्धसंज्ञान्दैत्यसैन्याननाशयत् ३२.
अपतन्भूतले पार्थ च्छिन्नाभ्राणीव सर्वशः ३२.
देवैः स्कंदानुगैश्चैव कृतं शस्त्रैः पराङ्मुखम् ३२.
संहतानि च सर्वाणि तदा तूर्याण्यवादयन् ३२.
देवानां च महामोदं तारकः प्राह सारथिम् ३२.
येस्माभिस्तृणवद्दृष्टाः पश्य कालस्य चित्रताम् ३२.
पश्यंतु मे बलं बाह्वोर्द्रवंतु च सुराधमाः ३२.